SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [ ३ मुक्तिखण्डे - ज्ञानं लब्ध्वा स विज्ञानादेव याति परां गतिम् ॥ यानि कर्माणि बाह्यानि मरणादूर्ध्वमच्युत ॥ ५९ ॥ शाश्वती श्रुतिरिति । कर्मणो ज्ञानेच्छामात्रजनकत्वे " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन" इत्यादिश्रुतिः । शमादीनां ज्ञानं प्रत्यन्तरङ्गत्वे " शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाssत्मानं पश्येत्" इति श्रुतिः । त्यागस्य तु " त्यागेनैके अमृतत्वमानशुः " इति । संन्यासवद्वाराणस्यादौ शरीरत्यागः प्रणवादिमन्त्रजपोऽपि साक्षाज्ज्ञानसाधनमित्याह - वाराणस्यादिक इति ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ॥ ५७ ॥ ।। ५८ ।। ५९ ।। For Private And Personal Use Only - मम ज्ञानप्रदानीति कथितानि मया तव ॥ तानि कल्याणवृत्तस्य विद्धि नान्यस्य कस्यचित् ॥६०॥ पापिष्टानामपि श्रद्धाविहीनानां जनार्दन ॥ मुक्तिदं मरणादूर्द्ध शिवक्षेत्रकवर्तनम् ॥ ६१ ॥ पुरा कोलाहलो नाम्ना वृषलो विधिचोदितः ॥ कामेन पीडितः स्वस्य पितरं पङ्कजेक्षण ॥ ६२ ॥ हत्वा मातरमादाय गत्वा मोहेन केशव ॥ वेदारण्ये यथाकामं चरित्वा मरणं गतः ॥ ६३ ॥ तत्र वर्तनमात्रेण स पुनः पुरुषाधमः ॥ प्रनष्टपापः शुद्धात्मा वेदारण्यवतो मम ॥ ६४ ॥ प्रसादादेव वेदान्तज्ञानं लब्ध्वाऽमृतोऽभवत् ॥ तस्माद्विमुक्तिकामानां विशिष्टेषु जनार्दन ॥ ६५ ॥ शिवक्षेत्रेषु मद्भक्त्या वर्तनं केवलं परम् ॥ सूत उवाच - एवं महेश्वरेणोकं निशम्य पुरुषोत्तमः ॥ ६६ ॥
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy