________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ३] सूतसंहिता।
२७१ सालोक्यादि पदं लब्ध्वा पुण्यकर्मक्षये पुनः॥ भूमौ विजायते पश्चात्कुरुते कर्म पूर्ववत् ॥४९॥ बाह्येन कर्मणा मुक्तिः क्रमाकालेन सिध्यति ॥
आन्तरेणाचिरादेव कर्मणा मुक्तिरच्युत ॥ ५० ॥ मानसकर्मोक्तन्यायं वाचिककायिककर्मणोरतिदिशति-एवमेव क्रमादिति ॥ ४७ ॥ ४० ॥ ४९ ॥ ५० ॥
यथाऽऽन्तरोपचारेण नराणां वल्लभाः स्त्रियः ॥ तथाऽऽन्तरेणं ध्यानेन वल्लभा मम जन्तवः ॥५१॥ बाह्यं कर्म महाविष्णो ज्ञानेच्छोत्पादकं भवेत् ॥
त्यागश्च कर्मणां तद्वन्महाविष्णो शमादयः ॥५२॥ मानसस्य बाह्याद्विशेषे निदर्शनमाह-यथाऽऽन्तरेति ।। ५१ ॥ ५२ ॥
इहैव सम्यग्ज्ञानाङ्गमित्येषा शाश्वती श्रुतिः ॥ वाराणस्यादिके स्थाने विशिष्टे पारमेश्वरे ॥ ५३॥ वर्तनं केवलं विष्णो नराणां मरणात्परम् ॥ सम्यग्ज्ञानप्रदं दिव्यं सत्यमुक्तं जनार्दन ॥५४॥ नित्यं द्वादशसाहस्रं प्रणवं यो जपत्यसौ ॥ मत्प्रसादान्मम ज्ञानं मरणादूर्ध्वमाप्नुयात् ॥ ५५॥ श्रीमत्पञ्चाक्षरं मन्त्रं प्रणवेन षडक्षरम् ॥ नित्यं द्वादशसाहस्रं यो जपेच्छ्रद्धया सह ॥ ५६ ॥ स पुनमरणादूर्ध्व मम ज्ञानं महत्तरम् ॥ मत्तो लब्ध्वा परां मुक्तिं तेन याति न संशयः॥५॥ यः पुमाशतरुद्रीयं जपति श्रद्धया सह ॥ दिने दिने महाविष्णो मरणादूर्ध्वमैश्वरम् ॥ ५८ ॥
१ घ. मुक्तिरुच्यते । २ ङ, ण ज्ञाने । ३ ङ परमात्परम् ।
For Private And Personal Use Only