________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेविशुद्धहृदयो मर्त्यः क्रमान्मामाच्यादरे ॥ अविशुद्धो विजायेत क्रमेण वसुधातले ॥३९॥ अत्यन्तापरमां मूर्तिं ब्रह्मणः परमेष्ठिनः ॥ य उपास्ते स सालोक्यं याति शुद्धस्तु मुच्यते॥४०॥ अशुद्धा जायत भूमा क्रमाद्रुक्त्वा महासुखम् ॥ यो देवतान्तरं नित्यमुपास्ते श्रद्धया सह ॥४१॥ चित्तपाकानुगुण्येन मूर्युत्कर्षबलेन च ॥ सालोक्यादिपदं लब्ध्वा पुनर्ब्रह्मपदं हरे ॥४२॥ लब्ध्वा विष्णुपदं वाऽपि मम रूपं महत्तरम्। मंत्तो लब्ध्वा मम ज्ञानं तेन मुच्येत बन्धनात् ॥४३॥ अथवा मलिनस्तत्र भुक्त्वा भोगाननेकशः ॥ भूमौ विजायते मर्यः सत्यमेव न संशयः॥४४॥ सर्वमूर्तिषु मां बुद्ध्वा श्रद्धया परया सह ॥ य उपास्ते महाविष्णो मूर्युत्कर्षक्रमेण तु ॥ ४५ ॥ चित्तपाकानुगुण्येन हरे शीघ्र क्रमेण तु ॥
अवाप्य परमां मूर्ति मम सर्वोत्तमां नरः ॥ ४६॥ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥ ४१ ॥ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६॥
लब्ध्वा मंत्तः शिवज्ञानं तेन याति परां गतिम् ॥ एवमेव क्रमादिष्णो नरो बाह्येन कर्मणा ॥४७॥ मामवाप्य शिवज्ञानं लब्ध्वा तेन प्रमुच्यते ॥ अविशुद्धोऽपि बाह्येन कर्मणा तत्र तत्र तु ॥४८॥ १५. 'न्मा प्राप्नु । २ ग. इ. ततो । ३ ख. मर्त्यः । ४ घ. वमादिक ।
For Private And Personal Use Only