________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७
अध्यायः ३]
सूतसंहिता। मुक्तौ साधनता कर्मणोऽभिधीयत इति मन्तव्यम् ॥ १२ ॥ १३ ॥
कर्मणैवापरा मुक्तिर्न ज्ञानादेव केवलात् ॥ तत्र कर्म विधा विष्णो विजानीहि विचक्षण ॥१४॥ एकं कर्माऽऽन्तरं बाह्यमपरं पङ्कजेक्षण ॥
वाचिकं कायिकं बाह्यं कर्म मानसमान्तरम् ॥ १५॥ कमर्णः साक्षात्परममुक्ताबसाधनत्वे वैयर्थ्यमेव प्राप्तमिति चेन्न । विचित्रं हि कर्म तत्र किंचित्साक्षादसाधनमपि ज्ञानद्वारा परमुक्तौ साधनम् | किंचित्पुनरपि परिपक्वज्ञानसहकृतमपरमुक्तौ । किंचित्तु केवलं भोगसाधनमित्यादिप्रकारभेदेन तदुपयोगसंभवादित्याह-कर्मणैवापरेत्यादिप्रपञ्चेन। कर्मणा सहैव ज्ञानादुपासनारूपादपरिपक्वात्मज्ञानाद्वा तयोरन्यतरलाभमात्रेण कर्मत्यागेनाकरणनिमित्तप्रत्यवायात्तदुपायपि प्रतिबध्येत परिपक्कात्मज्ञानं पुनरनादिभावपरंपरोपार्जितं संचितमपि निर्दहेत् । न केनचित्पतिबध्यते । श्रयते हि"एतर ह वाव न तपति । किमहः साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानः स्पृणुते" इति । स्मर्यते च__"ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" ।
नहि ज्ञानेन सदृशं पवित्रमिह विद्यते” इति । विभागेनोपयोगं दर्शयितुं कर्म विभजते-तत्र कर्मेति ॥ १४ ॥ १५ ॥
तत्र सर्व परं ब्रह्म न चान्यदिति यः पुमान् ॥
उपास्ते श्रद्धया नित्यं स सम्यग्ज्ञानमामुयात् ॥१६॥ आन्तरस्य कर्मणः फलमाह-तत्र सर्वमिति ॥ १६ ॥
यः पुमान्देवदेवेशं त्रिनेत्रं चन्द्रशेखरम् ॥
उमाविग्रहं शुद्ध नीलग्रीवं महेश्वरम् ॥ १७॥ तस्यैव विषयभेदेन फलान्तरमाह-यः पुमानिति ॥ १७ ॥
ब्रह्मविष्णुमहादेवैरुपास्यं गुणमूर्तिभिः ॥
उपास्ते तस्य विज्ञानं जायते पारमेश्वरम् ॥ १८ ॥ पारमेश्वरमिति । परमेश्वरस्य सकलरूपविषयसाक्षात्कारक्रमेण निष्कलापविषयं चेत्यर्थः ॥ १८ ॥
१ इ. 'रं ब्रह्मम।
For Private And Personal Use Only