SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६८ तात्पर्यदीपिकासमेता [ ३ मुक्तिखण्डे - अथवा चित्तकालुप्याच्छिवसारूप्यमच्युत ॥ लब्ध्वा मुक्त्वा महाभोगानन्ते विज्ञानमैश्वरम् ॥ १९ ॥ रागाद्यनुपहतचित्तस्योक्तम् । तदुपहतचित्तस्य पुनराह - अथवा चित्ते - ति ॥ १९ ॥ लब्ध्वा तेन महाविष्णो प्राप्नोति परमां गतिम् ॥ यः शिवं गुणमूर्तीनामुपास्ते श्रद्धया सह ॥ २० ॥ गुणमूर्तीनामिति । ब्रह्मविष्णुरुद्राणां मध्ये यो रुद्रमुपास्त इत्यर्थः ॥२०॥ स लब्ध्वा रुद्रसारूप्यं क्रमाज्ज्ञानेन मुच्यते ॥ यो रुद्रस्यापरां मूर्तिमुपास्ते श्रद्धया सह ॥ २१ ॥ स लब्ध्वा रुद्रसारूप्यं भुक्त्वा भोगानतिप्रियान् ॥ चित्तपाकानुगुण्येन शिवसारूप्यमेव च ॥ २२ ॥ अग्रहादिवैचित्र्येण सायुज्यादिव्यवस्था प्रागुक्तरीत्या द्रष्टव्या ||२१||२२|| शिवसायुज्यमाप्रोति शिवज्ञानेन केशव ॥ अत्यन्तापरमां मूर्ति यः पुमानीश्वरस्य तु ॥ २३ ॥ उपास्ते रुद्रसालोक्यं स लब्ध्वा पुरुषोत्तम ॥ भुक्त्वा भोगान्क्रमाद्दिष्णो रुद्रसारूप्यमेव च ॥ २४ ॥ अत्यन्तापरमामिति । प्रतीकमत्यन्तापरमं फलार्थम् । तत्तद्गुणविशिष्टम परमम् || २३ || २४ ॥ Acharya Shri Kailassagarsuri Gyanmandir सामीप्यमन्यद्दा सायुज्यं विद्ययाऽऽनुयात् ॥ अथवा विष्णुलोकादीनवाप्य पुरुषोत्तम ॥ २५ ॥ तत्र तत्र महाभोगानवाप्य कमलेक्षण ॥ पृथिव्यां जायते शुद्धे ब्राह्मणानां कुले नरः ॥ २६ ॥ स्वाभाविकं परमं प्रतीकोपासकः क्रमात्स्वरूपोपासनं लभत इत्याह - विद्य पेति ॥ २५ ॥ २६ ॥ यः पुमाञ्श्रद्धया नित्यं त्वामुपास्ते जनार्दन || स शुद्धचित्तस्त्वां विष्णो प्राप्य कालेन मामपि ॥२७॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy