SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ तात्पर्यदीपिकासमेता- [ ३ मुक्तिखण्डेननु कथमात्मज्ञानादज्ञानतत्कार्यनिवृत्तिः संसारदशायामहं कर्ताऽहं भोक्तेत्यादावहमित्यात्मनि भासमाने सत्येव तत्राऽऽरोपितसंसारावभासादित्यत आहआत्मनस्तत्त्वेति । अज्ञानं हि निरंशमप्पात्मानमंशवन्तमिव कृत्वा तत्रैकमंशमावृणोति नेतरम् । यन्नाऽऽवृणोति स विश्नमदशायामहमित्यवभीतो चमतत्कारणयोरधिष्ठानम् । तन्मात्रावभासो भ्रमस्य हेतुरेव न निवर्तकः । यं पुनरावृणोति निरतिशयानन्दरूपमद्वितीयं तदज्ञानस्य विषयमात्मनस्तत्त्वं ब्रह्मैव तज्ज्ञानादज्ञानस्य निवृत्तिर्नाधिष्ठानज्ञानमात्रादित्यर्थः । अधिष्ठानज्ञानस्य भ्रमानिवर्तकत्वे विशेषज्ञानस्य च निवर्तकत्वे निदर्शनमाह--यथा सर्पति । अयं सर्प इति विभ्रमेऽवैभासमानो दण्डस्य तनुदीर्घत्वादिसाधारणाकारोऽधिष्ठानम् । आवृतस्तु दण्डत्वादिरसाधारणाकारो विषयश्चेदमंशस्य पारमार्थिकं रूपं तेन रूपेण दण्डस्य ज्ञानाद्विभ्रमनिवृत्तिर्यथेत्यर्थः ॥ १० ॥ अस्य संसारिणस्तत्त्वं तथा ब्रह्मैव केवलम् ॥ अज्ञानमूलं कळदिकारकज्ञाननिर्मितम् ॥ ११ ॥ दान्तिके योजर्यात-अस्येति । कर्मणः संसारनिवर्तकत्वेन तन्मूलाज्ञानानिवर्तकत्वं कारणमाह-आज्ञनेति ॥ ११ ॥ अज्ञानबाधकं कर्म न भवेदम्बुजेक्षण ॥ कर्मणा परमा मुक्तिर्यदि सिध्यति केशव ॥ १२॥ सा विनश्यत्यसंदेहः स्वर्गलोको यथा तथा ॥ तस्मान कर्मणा मुक्तिः कल्पकोटिशतैरपि ॥ १३ ॥ न केवलं कर्मणः स्वमूलत्वादज्ञानं प्रत्यनिवर्तकत्वं निवर्तकत्वेऽज्ञाननिवृत्तिरूपाया मुक्तेः कर्मजन्यत्वेन स्वर्गवदनित्यत्वप्रसङ्गादपि तदनिवर्तकत्वमित्याह-कर्मणेति । ___ "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" । इत्यादिभिरपि न कर्मणो मुक्तिहेतुतोच्यते । किंतु सम्यसिध्यत्यनया मुक्तिरिति विद्या संसिद्धिपदेनोच्यते । तत्पतिबन्धकपानिराकरणद्वारा पर* ङ, पुस्तके-'तस्मान्न कर्मणा मुक्तिर्न ज्ञानादेव केवलात् ॥ कर्मणेवापरा मुक्तिः कल्पकोटिशेतैरपि' । इति विलोमपाठो दृश्यते । घ. भाते भ्र। ङ. 'भासते नं। २ घ. "वस्थामा। ३ ङ. 'नवदी। ४ घ. 'षयाच्चैद। ५ घ. छ. 'वेत । ६ ध. मजेई । ७ च.. लोक या ८ क. ख. ग. घ. द्वारेण विद्यासा। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy