SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ३] सूतसंहिता। २६५ अनेनैवेति । यद्यपि ब्रह्म स्वात्मन्यध्यस्तस्य मायातकार्यजातस्य स्वरूपस्फुरणेनैव प्रकाशकमत एव यः सर्वज्ञः सर्वविदित्यप्युच्यते तथाऽपि तदेव ब्रह्म यथोक्तरूपायां वृत्तौ प्रतिबिम्बितं सत्तस्यैव मायातकार्यजातस्य विनाशकं भवति । एकस्याप्यवस्थाभेदेन तत्प्रकाशकत्वं तन्निवर्तकत्वं चाविरुद्धम् । तथा हि "प्रकाशयति मा भानो] तूलतृणादिकम् । सा सूर्यकान्तसंक्रान्ता तद्दहन्त्युपलभ्यते" इति ॥ अज्ञानविनाशे तत्कार्यत्वेन द्वैतवस्तुनो विनाशः ॥ ४॥ दैतवस्तुविनाशे च शोभनाऽशोभना मतिः ॥ क्षीयते मतिनाशेन रागद्वेषौ विनश्यतः ॥ ५॥ तयोर्नाशे महाविष्णो धर्माधर्मी विनश्यतः ॥ धर्माधर्मक्षयादेहो विषयाणीन्द्रियाणि च ॥६॥ यथोक्ततत्त्वज्ञानेनाज्ञाननिवृत्तावुपादाननाशादेव संचितस्य धर्माधर्मादेशिः । नूतनस्य तु निरुपादानत्वादनुत्पत्तिरेव | रागद्वेषौ विनश्यत इत्यादौ नाशशब्दौ विनेत्युच्यते ॥ ५॥६॥ नश्यन्त्येव न संदेहो ज्ञात्वा देवमिति श्रुतिः ॥ घटज्ञानावटाज्ञानं यथा लोके विनश्यति ॥ ७॥ ज्ञात्वेति । "ज्ञात्वा देवं मुच्यते सर्वपाशैः" इति श्वेताश्वतरश्रुतिरित्यर्थः । ज्ञानस्याज्ञाननिवर्तकत्वे घटज्ञानं दृष्टान्तः ॥ ७ ॥ तथाऽऽत्मज्ञानमात्रेण नश्यत्यज्ञानमात्मनः॥ रज्वज्ञानविनाशेन रज्जुसो विनश्यति ॥ ८॥ तथाऽऽत्माज्ञाननाशेन संसारश्च विनश्यति ॥ तस्मादज्ञानमूलस्य संसारस्य क्षयो हरे ॥ ९॥ अज्ञाननाशामनिवृत्तौ रज्जुसर्पन्यायः ॥ ८ ॥ ९॥ आत्मनस्तत्त्वविज्ञानात्तत्वं ब्रह्मैव केवलम् ॥ यथा सर्पदमंशस्य तत्त्वं दण्डादि केवलम् ॥ १० ॥ घ. 'था ह्यज्ञा ! ------- -- ---- ३४ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy