________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः२]
सूतसंहिता। तेषां मध्ये महादेवः संसारद्रावको हरः। रुद्रः परमकारुण्यः स्वयमाविरभूविजाः॥५॥ अदृष्टपूर्व तं दृष्ट्वा देवा विष्णुपुरोगमाः।
प्रणिपत्य महादेवमपृच्छन्को भवानिति ॥६॥ परमकारुण्यः करुणैव कारुण्यम् । चतुर्वर्णादिभ्यः स्वार्थे इति व्यञ् । तमाविर्भूतं रुद्रं देवाः को भवानित्यपृच्छन् । तदाह श्रुतिः "ते' देवा रुद्रमटच्छन्को भवानिति" इति ॥ ५॥६॥
सोऽब्रवीद्भगवाजुद्रः पशूनां पतिरीश्वरः ।
सर्वज्ञः सर्वतत्त्वानां तत्त्वभूतः सनातनः ॥७॥ पशूनां पतिः । उक्तलक्षणानां त्रिविधानां पशूनामनुग्रहेण पालनात्पतिः । उक्तं हि मृगेन्द्रसंहितायाम्
"अथानादिमलापेतः सर्वकृत्सर्वक शिवः।
पूर्वं व्यत्यासितस्याणोः पाशजालमपोहति" इति । पाशानां स्वव्यापारे सामर्थ्याधानात्पशूनां भोगापवर्गप्रदानाच्च तेषामीष्ट इतीश्वरः । यथाऽऽहुरागमिकाः
"भुक्तिं मुक्तिमणूनां स्वव्यापार समर्थनाधानम् ।
जडवर्गस्य विधत्ते सर्वानुग्राहकः शंभुः" इति । सर्वतत्त्वानां तत्त्वभूत इति । आपलयमवस्थितानि तत्त्वानि प्रलयेऽप्यवस्थानात्तु सनातनः शिवः सर्वतत्त्वानां तत्त्वभूतः । तदुक्तम्
"आपलयं यत्तिष्ठति सर्वेषां भोगदायि भूतानाम् ।
तत्तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः" इति ॥ ७॥ अहमेको जगद्धातुरासं प्रथममीश्वरः।
वामि च भविष्यामि न मत्तोऽन्योऽस्ति कश्चन॥८॥ रुद्रस्योत्तरम् । अहमेक इति । जगद्धातुर्बम॑णः सकाशादपि प्रथममहमासं वर्तामि भविष्यामि च । एकैककालकृतपरिच्छेदविरहाभिप्रायं नतु कालत्रयसंव न्धाभिप्रायमहमेक इति न मत्सोऽन्य इति च । स्वातिरिक्तस्य कालस्यापि निरासात् । अत एव चैक इत्यपि द्विव्यादिसंख्यासंबन्धनिरासो विवक्षितो
१. तं । २ घ. 'द्रमापृ ३ ग. घ. गद्धेतु। ४ ख. ‘ह्मणोऽपि। ५ ख. मि च भी।
For Private And Personal Use Only