SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्षदीपिकासमेता [१शिवमाहात्म्यखण्डे अज्ञत्वान्नैव हेतुः स्यान च प्रकृतिरेव च । अतः सर्वजगहेतुरन्य एव तपोधन ॥२॥ तमस्माकं महाभाग ब्रूहि पुण्यवतां वर । अज्ञत्वादिति । जगत उपादानादिज्ञानमन्तरेण तत्कर्तृत्वासिद्धेर्जीवस्य परिच्छिन्नज्ञानत्वात्मकृतेश्च जडत्वेन तदभावान्न तत्कारणतोपपत्तिरित्यर्थः । मलमायाकर्मलक्षणपाशत्रयबद्धा जीवाः पशवः । तत्र मलपाशमात्रबद्धा विज्ञानकलाः । ते द्विविधाः । समाप्तकलुषा असमाप्तकलुषाश्च | आद्या विद्येशाः । द्वितीयाः सप्तकोटिमहामन्त्रात्मकाः । मलकर्मलक्षणपाशद्वयबद्धाः प्रलयकलाः। तेऽपि मलकर्मणोः परिपाकभावाभावाभ्यां द्विविधाः। येषां तत्परिपाको नास्ति ते कर्मवशानानायोनिषु जायन्ते । येषां तु मलकमपरिपाकोऽस्ति तेषु केषुचिदीश्वरानुग्रहाद्रुवनपतयो भवन्ति । पाशत्रयबद्धास्तु कलादियोगात्सकलाः। तत्राष्टादशाधिकशतसंख्याकाः शिवानुग्रहान्मन्त्रेश्वरा भवन्ति । तत्र शतरुद्राः शतमण्डलिनोऽष्टौ क्रोधादयोऽष्टौ श्रीकण्ठवीरेश्वरौ चेति । तद्यतिरिक्तानां मध्ये येषां मलत्रयपरिपाकस्तानाचार्यरूपेण शिव एव दीक्षयाऽनुगृह्णाति । अपरिपकमलांस्तु मलपरिपाकार्थं भोगाय नानायोनिषु विनियुते । एते सर्वेऽपि पशवः सत्यपि ज्ञानोत्कर्षतरतमभावे सार्वयाभावान जगतः कर्तारः । प्रकृतेस्तु जडत्वात्तदूरत एव कर्तृत्वम् । अतोऽन्येनैव केनचित्सर्वज्ञेन जगतः का भवितव्यम् ॥ २॥ सूत उवाच पुरा विष्ण्वादयो देवाः सर्वे संभूय कारणम् ॥३॥ विचार्य जगतो विप्राः संशयाविष्टचेतसः । अतीव सुखदं शुद्धं रौद्रं लोकं समागमन् ॥४॥ कोऽसाविति मुनीनां जिज्ञासा । अत्रोत्तरमथर्वशिरसि स्थितयाऽऽख्यायिकयैव सूत आह-पुरा विष्ण्वादयो देवा इति । अतीव मुखदं शुद्धमिति । तथा च श्रुतिः "देवा ह वै स्वर्ग लोकमगमन्" इति । तदाहुः-- "यन दुःखेन संभिन्नं न च अस्तमनन्तरम् । अभिलाषोपनीतं च मुखं स्वर्गपदास्पदम्" इति ॥ ३ ॥४॥ १. ज्ञानवत्त्वात् । २ ख. 'मविपा । ३ ख. 'न्मन्त्रेशा भ'। ४ क. ख. ग. क्रोधाद्यादयो । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy