________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः२]
सूतसंहिता। इति श्रीस्कन्दपुराणे श्रीमूतसंहितायां शिवमाहात्म्यखण्डे
ग्रन्थावतारकथनं नाम प्रथमोऽध्यायः॥१॥ भक्तिगम्यायेति भक्तेः फलभूतं ज्ञानयोगमाह-विदुषामात्मरूपिण इति विदुषो निजस्वरूपज्ञानिनः स्वात्मानमेव प्रापयतीत्यर्थः । इत्थंभूतस्य शिवस्य स्वरूपमाह-स्वानुभूतिप्रसिद्धायेति । स्वयं स्वतन्त्र एव भासते न प्रकाशान्तरेण । स्वातिरिक्तस्य च सर्वस्य भाने स्वयमेव हेतुर्भवति । “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वम्"इति च श्रुतेरित्यर्थः ॥ ५५ ॥ इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे ग्रन्थावतारकथनं नाम
प्रथमोऽध्यायः ॥१॥
द्वितीयोऽध्यायः।
नैमिषीया ऊचुः--
सर्वं जगदिदं विदन्विभक्तं केन हेतुना ।
उत्पनं केनचित्तस्मादनित्यं च ततः पशुः ॥१॥ अथ पाशुपतव्रतपूर्वकं देवोपदेशादनुभवपर्यन्तं बोधो भवतीति वक्तुं द्वितीयोऽध्याय आरभ्यते । तत्रास्ति किंचिजगतः कारणमिति सामान्यतो जानन्त इदं तदिति विशेषेणाजानन्तो मुनयस्तजिज्ञासया सूतं पप्रच्छु:-सर्वं जगदिदं विद्वनिति । प्रश्रोपपत्तये सामान्यतो ज्ञानहेतुमाह-उत्पन्न केनचिदिति । अनित्यत्वादेव जगदुत्पत्तिमदुत्पत्तिश्च न विना कारणेन । अतोऽस्ति किंचित्कारणमिति सामान्यतो ज्ञातमित्यर्थः । अधुना विशेषेण ज्ञाने कारणमाह । ततः पशुरिति ॥१॥
१ क. ख. 'दं ब्रह्मन्वि। २ ङ. जगदुत्पत्तिश्च ।३ घ. कारणत्वेन ।
For Private And Personal Use Only