SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ तात्पर्यदीपिका समेता [ ३ मुक्तिखण्डे - दवभासहेतुरूपा तृतीया । सा प्रारब्धकर्मावसाने निवर्तत इत्यर्थः । “स्वतःसिद्धात्मरूपिणी" इति पाठान्तरम् ॥ ५४ ॥ स्वतः सिद्धात्मभूताया मुक्तेरज्ञानहानतः ॥ अभिव्यक्तेर्महाविष्णो बदत्वं दग्धवस्त्रवत् ।। ५५ ॥ प्रपञ्चस्य प्रतीतत्वाज्जीवनं पुरुषोत्तम ॥ फलोपभोगात्प्रारब्धकर्मणः संक्षये हरे ॥ ५६ ॥ दग्धवस्त्रं प्रावरणादिव्यवहारजननाक्षममपि तदाकारप्रतिभासमात्रेण यथा चस्त्रमित्युच्यते । एवं ज्ञानाग्निना दग्धमपञ्चः प्रागिवाभिनिवेशाजनकोऽर्पि, अवभासमात्रेण बद्ध इत्युच्यते । अभिनिवेशाभावादेव चाऽऽत्मनो मुक्तत्वमित्यर्थः ॥ ५५ ॥ ५६ ॥ प्रतिभासो निवर्तेत प्रपञ्चस्य न संशयः ॥ यस्य दृश्यप्रपञ्चस्य प्रतिभासोऽपि केशव ॥ ५७ ॥ इयं चेज्जीवन्मुक्तिः का तर्हि परमा मुक्तिरित्यत आह-यस्य दृश्येति ॥ ५७ ॥ निवृत्तः स्वप्रवत्सोऽयं मुक्त एव न संशयः ॥ भूतपूर्वानुसंधानान्मुक्त इत्युच्यते मया ॥ ५८ ॥ बन्धश्वेदवस्तुत्वेन न कदाचिदप्यस्ति तर्हि न तस्य निवृत्तिरिति कथं तन्निवृत्तिरूपा मुक्तिरित्युच्यत इत्यत आह-भूतपूर्वेति । यथा वस्तुतोऽसतोऽपि बन्धस्याऽऽविद्यकं सत्त्वमेवं तन्निवृत्तेरपीत्यर्थः । न च निवृत्तेरवस्तुत्वे निवत्यैमवतिष्ठत इति वाच्यम् । यथाऽऽहुः " मिथ्याभावेन भूतं किं मिथ्यानाशान नश्यति" इति ॥ ५८ ॥ सं न मुक्तो न बद्धश्च न मुमुक्षुर्न चापरः ॥ य एवमात्मनाऽऽत्मानं सुदृढं वेद केशव ॥ ५९ ॥ वस्तुतस्तर्हि कथमित्यत आह- स न मुक्त इति । तदुक्तमाचार्यैः"न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षु वै मुक्त इत्येषा परमार्थता " इति । १ ङ. ननेऽपि । २ ख. पि, आभा । ३ ङयमेव ति । ४ घ० तिष्ठेतेति । ५ङ, न स मु । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy