________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६३
अध्यायः २]
सूतसंहिता। य एवमिति । नित्यनिवृत्ताया मायायाः निवृत्तिमात्मस्वभावभूतता स्वरूपप्रकाशेनैवं वेद, एवं जानीयात् ॥ ५९॥
स एव परमज्ञानी नेतरो माययाऽऽवृतः॥
एवं जानामि सुदृढमिति यो वेत्ति केशव ॥६०॥ इतरस्तु ज्ञानविषयतामविषयस्याऽऽत्मनो मन्यमान आत्मानमजाननेव जानामीति व्यवहाराद्वश्चक इत्यर्थः । उक्तं तलवकारोपनिषदि
“यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम्" इति ॥ ६० ॥ स मूढ एव संदेहो नास्ति विज्ञानवञ्चकः ॥ मुक्तिस्वभावो वेदान्तैर्मया च परिभाषितुम् ॥ ६१ ॥ अशक्यः स्वानुभूत्या च मौनमेवात्र युज्यते ॥ मुक्तिरुक्ता मया विष्णो महत्या श्रद्धया तव ॥६२॥
त्वमपि श्रद्वया विद्वि श्रेयसे भूयसे सदा ॥ सूत उवाच
एवं निशम्य भगवान्विष्णुर्वेदार्थमुत्तमम् ॥ ६३ ॥ सर्वज्ञं सर्वभूतेशं सर्वभूतप्रिये रतम् ॥ प्रदक्षिणत्रयं कृत्वा भवानीसहितं हरम् ॥ ६४ ॥ प्रणम्य दण्डवद्भक्त्या भवं भवहरं शिवम् ॥ स्तोत्रैः स्तुत्वा महादेवं पूजयामास सुव्रताः ॥६५॥ इति श्रीस्कन्दपुराणे सूतसंहितायां मुक्तिखण्डे मुक्ति
भेदकथनं नाम द्वितीयोऽध्यायः॥२॥ मुक्तिस्वभाव इति । मुक्तेरात्मस्वरूपत्वात्तस्य च वाङ्मनसागोचरत्वान्मौनमेव तत्र शोभत इत्यर्थः । श्रूयते हि-"अवचनेनैव प्रोवाच" इति ॥ ६१ ॥ ६२ ।। ॥ ६३ ।। ६४ ॥६५॥
१ ह. स्वरूपभावभूतस्य स्वरूपप्रकाशवेनैवं । २ घ. 'न्तैर्मायया प ।
For Private And Personal Use Only