SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५९ अध्यायः २] सूतसंहिता। दोषतामाह- स्पर्धयेति । उपकरणपारतच्यादपि तासां न मुख्यत्वमित्याहपरतत्रा इति ॥ ३६ ॥ सुखोत्तरा अपि श्रेष्ठा दुःखमिश्राश्च सर्वदा ॥ एताश्च मुक्तयोऽन्येषां केषांचिदधिकारिणाम् ॥ ३७॥ विश्रान्तिभूमयः साक्षान्मुक्तेः प्रोक्ताः क्रमेण वै ॥ __ अत्यन्तशुद्धचित्तानां नृणामेता विमुक्तयः ॥ ३८॥ अविशुद्धिमाह-सुखोत्तरा अपीति । कथं तर्खेता मुक्तित्वेन परिगणिता इत्याशङ्कय मन्दाधिकारिविषयत्वेनेत्याह-एताश्चेति । साक्षान्मुक्तेरर्वाचीना एताः क्रमेण तारतम्येनोपेता विश्रान्तिभूमित्वसाम्यान्मुक्तय इत्युपचरिता इत्यर्थः। आसां मुक्तित्वमुपचरितमित्यपि विवेकिन एव जानन्ति । अविवेकिनस्तु स्वर्गवद्भोगभूमीरेता एव मुक्तित्वेनाभिमन्यन्ते । कर्मिणो हि स्वर्गमपि मुक्तित्वेन व्यवहरन्ति । “अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान्" इति । तदीयाभिमानस्य भ्रममूलत्वं मुण्डकादिषु श्रूयते"अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात्तेनाऽऽतुराः क्षीणलोकाश्चयवन्ते" इत्यादि ॥ ३७ ॥ ३८ ॥ भवन्ति विष्णो भोगार्थ स्वर्गवत्ताश्च नश्वराः॥ एताश्च बहुधा भित्रा विद्धि पङ्कजलोचन ॥ ३९ ॥ काश्चिच्छंकरसारूप्यरूपाः प्रोक्ता विमुक्तयः॥ काश्चिन्मुकुन्दसारूप्यरूपाः काश्चिजनार्दन ॥ ४०॥ ब्रह्मसारूप्यरूपाश्च तथा काश्चिद्दिमुक्तयः॥ ब्रह्मविष्णुमहेशानामर्वाग्रूपसमाः स्मृताः॥४१॥ काश्चित्सदाशिवादीनां रूपेण सदृशा हरे॥ काश्चिदन्यसमा विष्णो मुक्तयः परिकीर्तिताः ॥४२॥ काश्चिच्छंकरसामीप्यरूपाः प्रोक्ता विमुक्तयः॥ विष्णुसामीप्यरूपाश्च काश्चिद्विष्णो विमुक्तयः॥४३॥ १ ख. 'कारवि' । २ इ. "तम्योपे । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy