________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेकथमोपनिषदत्वं वस्तुन उच्यते "तं त्वौपनिषदं पुरुषं पृच्छामि" इति । सत्यम् । वस्तु ज्ञानाविषय एव । “यतो वाचो निवर्तते, अप्राप्य मनसा सह" इति वामनसातीतस्यैव वस्तुत्वेन व्यवस्थापनात् । औपनिषदत्वं तु, उपनिषजन्यान्तःकरणवृत्त्या स्वात्मानमप्यविषयीकुर्वत्या वस्तुतत्त्वमात्राकारया प्रतिबन्धकाज्ञाननिवृत्तौ स्वरूपभूतस्फुरणेनैव वस्तुनोऽवभासमभिप्रेत्योक्तमिति न दोषः । तदिदमुक्तं स्वयंप्रभेति ॥ ३२ ॥ ३३ ॥
प्रतिबन्धविनिर्मुक्ता सर्वदा परमार्थतः ॥
अविचारदशायां तु प्रतिबद्धा स्वमायया ॥ ३४॥ स्वरूपातिरिक्तस्य प्रतिबन्धस्याङ्गीकारे तेनैव द्वैतापत्तिस्तनिवृत्तये कर्मापेक्षा च स्यात् । नहि वस्तुज्ञानेन निवर्तते यतो ज्ञानमज्ञानस्यैव निवर्तकमित्यत आह-प्रतिबन्धेति । अज्ञानस्यैवं प्रतिबन्धकत्वाभिधानाद्वास्तवप्रतिबन्धकानङ्गीकारान्न यथोक्तदोष इत्यर्थः ॥ ३४ ॥
एषैव परमा मुक्तिः प्रोक्ता वेदार्थवेदिभिः ॥
अन्याश्च मुक्तयः सर्वा अवराः परिकीर्तिताः ॥ ३५॥ प्राक्तनमुक्तिचतुष्टये तर्हि प्रतिबन्धकस्याज्ञानस्यानिवृत्तेः कथं ता मुक्तय इत्यत आह-एषैवेति । इयमेव मुख्या मुक्तिः । अन्यास्तु कियत्यः किय. तोऽपि दुःखस्योपरमान्मुक्तित्वेनोपरिता इत्यर्थः ॥ ३९ ॥
जन्मनाशाभिभूताश्च तारतम्येन संस्थिताः॥
स्पर्धयोपहता नित्यं परतन्त्राश्च सर्वदा ॥ ३६॥ तासाममुख्यत्वे कारणमाह-जन्मेत्यादि । दुःखसंपृक्तत्वेनाविशुद्धत्वाक्षयित्वात्सातिशयत्वाच्च न ता मुख्या मुक्तयः । इयमेव च तद्विरहान्मुख्या । यदुक्तम्
"दृष्टवदानुश्रविकः स ह्याविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान्व्यक्ताव्यक्तज्ञविज्ञानात्" इति ॥ जन्मनाशेति विनाशित्वम् । तारतम्यनेति सातिशयत्वम् । सातिशयत्वस्य
१ घ. 'दं । २ ङ. 'न्धकनि । ३ घ. व वस्तुभुतस्य प्र । 'स्यैवास्तु प्र'। ४ घ. 'नोवाच । ५ घ. 'वदो।
For Private And Personal Use Only