________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः २ ]
सूतसंहिता ।
षड्भावविक्रियाहीना शुभाशुभविवर्जिता ॥ सर्वद्वंद्वविनिर्मुक्ता सत्यविज्ञानरूपिणी ॥ ३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
२५७
वैषयिक सुखदुःखविरहे तदयोग्यत्वं कारणमाह-- षद्भावेति । जायतेऽस्ति विपरिणमते विवर्धतेऽपक्षीयते विनश्यतीति षड्भावविकाराः । वैषयिकसुखप्राप्तौ वा दुःखनिवृत्तौ वा एते स्युः । " उपयन्नपयन्धर्मे विकरोति हि धर्मणम्" इति न्यायान्नित्यनिरतिशयानन्दस्वरूपस्याऽऽत्मनः स्वरूपाभिव्यक्तिरूपायां मुक्तौ नैतत्संभव इत्यर्थः । वैषयिक सुखदुःखविरहे कारणमाह--- शुभाशु भेति । विहितं यागादि शुभम् । प्रतिषिद्धं हिंसाद्यशुभम् । तदुभयं विदुषो नास्ति " नैनं कृताकृते तपतः" इत्यादिश्रुतिभ्यः । द्वंद्वान्तरविरहस्याप्युपलक्षणमित्याह -- सर्वेति । रागद्वेषौ मानावमानौ शीतोष्णावित्यादिद्वंद्वैर्न स्पृश्यत इत्यर्थः ॥ ३० ॥
केवलं ब्रह्मरूपोक्ता सर्वदा सुखलक्षणा ॥ न हेया नाप्युपादेया सर्वसंबन्धवर्जिता ॥ ३१ ॥ अत्मनः स्वरूपत्वेन हातुमशक्यत्वाददेयाऽतएव नित्यप्राप्तत्वात्रोपोदातव्याऽपीत्याह--न हेयेति ॥ ३१ ॥
For Private And Personal Use Only
•
न दृष्टा न श्रुता विष्णो न चाऽऽस्वाद्या न तर्किता || सर्वावरणनिर्मुक्ता न विज्ञेया निराश्रया ॥ ३२ ॥ वाच्यवाचकनिर्मुक्ता लक्ष्यलक्षणवर्जिता ॥ सर्वेषां प्राणिनां साक्षादात्मभूता स्वयंप्रभा ॥ ३३ ॥ न दृष्टेति । " अदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्वाऽविज्ञातो विज्ञाता, एष त आत्माऽन्तर्याम्यमृतः" इत्यादिश्रुतिभ्यः । ननु महावाक्यात्मिकया श्रुत्या लक्षणया वेद्यत्वात्कथम श्रुतत्वमित्यत आह-- सर्वावरणेति । अविद्ययाssवृतस्यैव स्वरूपस्याssवरण निरासाय लक्षणया वाक्यजन्यज्ञानविषयत्वान्निरस्तसमस्तोपाधिकस्य त्वावरणेन लक्ष्यत्वेन श्रुतिजन्यज्ञानेन च नास्त्येव संबन्धः । तथाविधस्वरूपचेह मुक्त इत्युच्यते । " यद्वाचाऽनभ्युदितम् " इत्यादिभिर्ज्ञानाविषयस्यैव वस्तुत्वेन व्यवस्थापनात् । नन्वेवं तस्यैौपनिषदज्ञानविषयत्वेऽवस्तुत्वादवस्तुनि नोपनिषदां प्रामाण्यमविषयत्वे च सुतरामिति
१ ग. नैकं । २ क. आत्मानं । ३ ख. 'पादेयाऽपी' । ४ ग. लक्षणलेन । ५ डनचैनं । ૩૩