________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेआनन्दः" "तद्यथेह कर्मजितो लोकः क्षीयते" "लवा ह्येते अदृढा यज्ञरूपाः" "अतोऽन्यदातम्" "वाचारम्भणं विकारः" "ते तं भुक्त्वा स्वर्गलोकम्" "कामात्मानः स्वर्गपराः" "क्षरन्ति स्वर्ग वैदिक्यो जुहोतियजतिक्रियाः" "आ ब्रह्मभुवनाल्लोकाः" "स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः" "यावद्विकारं तु विभागो लोकवत्" इत्यादिश्रु. तिस्मृतिन्यायप्रसिद्धौ ममिानही बुद्ध्वा ब्राह्मणो विद्वान्प्रकृतिप्राकृतमलैरनास्कन्दितं परं ब्रह्माऽऽत्मतया तद्भावं गतो ब्राह्मणोऽभिजयत्यभितः पराकरोति । यद्वा, एतौ महिमानौ सूर्याचन्द्रमसोर्ज्ञानादैश्वर्याविर्भावलक्षणौ विद्वान्ब्राह्मणोऽभिजयत्यात्मत्वेन प्राप्नोति । स्वात्मानं ज्ञानातिशयत्वात्तयोरानन्दादिमहिनोः स्वात्मन्येव पश्यति । एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" इति । “सोऽश्नुते सर्वान्कामान्सह" "तमेव भान्तमनुभाति सर्वम्" "एष उ एव वामनीः" "एष उ एव भामनीः" "यद्यद्विभूतिमत्सत्त्वम्" "यावा. नर्थ उदपाने" इत्यादिश्रुतिस्मृतिभ्यः । तस्माद्ब्रह्मणो महिमानमाप्नोति । येन सम्यग्ज्ञानेनावच्छेदकविश्वादिसर्वोपाधीनामात्ममात्रतया प्रविलाप्य तदुपहितज्ञानानन्दादीन्स्वात्ममात्रतया पश्यति विद्वान् । तस्माद्ब्रह्मात्मैकत्वज्ञानाद्ब्रह्मणो निरस्तसमस्तोपप्लवानन्तसत्यपरमानन्दबोधैकतानस्य परमात्मनः स्वरूपभूतमहिमानं महत्त्वमपास्तसमस्तातिशयपरमानन्दैकतानलक्षणं स्वात्मत्वेनाऽऽप्नोति । एकत्वज्ञानेन व्यवधायिकाविद्यानिवृत्तिरेवाऽऽप्नोतीत्युपचर्यते । "ब्रह्मैव सन्ब्रह्माप्येति" इत्यादिश्रुतिभ्यः । तत्र प्रतीकोपासकस्य मुक्तिमाह-एका सालोक्येति ॥ २८॥
सामीप्यरूपा सारूप्या तृतीया पुरुषोत्तम ॥
अन्या सायुज्यरूपोक्ता सुखदुःखविवर्जिता ॥ २९ ॥ ऊर्ध्वरेतसां स्वाश्रमेषु यथोक्तधर्मानुष्ठानवतां मुक्तिमाह-सामीप्येति । अन्तरेणैव प्रतीकं स्वात्मनः पृथक्त्वेन विविधैश्वर्योपेतदेवतोपासकस्य मुक्तिमाह-सारूप्येति । अहं ग्रहोपासकस्य मुक्तिमाह--अन्या सायुज्येति । इत्थं चतस्रः कर्मफलभूता मुक्तय उक्ताः । ज्ञानफलमुक्तिमाह-मुखदुःखेति । अन्येत्यनुवर्तते । दुःखेन क्षयातिशयवता वैयिकमुखेन च वर्जितम् । नित्यनिरतिशयपरानन्दलक्षणत्वाद्विद्याफलस्य मुक्तरित्यर्थः ॥ २९ ॥
क. ह्यभव। २ ग. 'श्वर्य देव । ३ ग. असंन ।
For Private And Personal Use Only