________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः २] सूतसंहिता।
२५५ भद्रं भद्रं महाविष्णो त्वया पृष्टं जगद्वितम् ॥
वदामि संग्रहेणाहं तच्छृणु श्रद्धया सह ॥२७॥ विलोक्येति । देव्यालोकनाभिमायः । आलादात् । हलादि सुखे च' । आलादत इत्यालादः । पचाद्यच ॥ २५ ॥ २६ ॥ २७॥
बहुधा श्रूयते मुक्तिर्वेदान्तेषु विचक्षण ॥
एका सालोक्यरूपोक्ता द्वितीया कमलेक्षण ॥२८॥ बहुधा श्रूयत इति । सालोक्यसामीप्यसारूप्यसायुज्यस्वरूपावस्थालक्षणाः पञ्च मुक्तयः । वेदान्ते विति ।
"तपःश्रद्धे ये घुपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचयाँ चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो बव्ययात्मा" इति मुण्डकश्रुतिः । तत्र हि सूर्यद्वारेणेति सूर्योपलक्षितेनाचिरादिमार्गेण गत्वा यत्र सत्यलोके स पुरुषो ब्रह्मा वर्तते तत्र यान्तीति । सामीप्यमेतदूर्ध्वरेतसां स्वाश्रमेषु यथोक्तधर्मानुष्ठानवताम् । सालोक्यसारूप्यसायुज्यक. पामु तिमृषु मुक्तिषु "एतासामेव देवतानां सायुज्य५ साष्टितासमानलोकतामामोति" इति तैत्तिरीयकश्रुतिः । अत्रहि प्रतिमादिषु विष्ण्वादिदेवतानामिव तत्समानलोकत्वं सालोक्यम् । अन्तरेणैव प्रतीकं स्वात्मनः पृथक्त्वेनैश्वर्यविशेषविशिष्टतया देवताया उपासकस्य सार्टितो समानरूपता सारूप्यम् । सगुणं देवतारूपमहंग्रहेणोपासनीयस्योपास्यदेवतातादात्म्यं सायुज्यम् । एताश्चतस्रो मुक्तयः कर्मफलभूता अनित्याः सातिशयाश्च । या तु ज्ञानफलभूता नियनिरतिशयानन्दाभिव्यक्तिलक्षणा सा पञ्चमी । तत्रापि “य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्य: सलोकतामाप्नोत्येतो वै सूर्याचन्द्रमसोमहिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमा. मोति" इति तैत्तिरीयके । अत्र हि केवलकर्मिणां चन्द्रलोकप्राप्तिरुक्ता । य एवं विद्वानिति विद्वच्छन्दाभिहितपतीकाद्युपासनात्रयवतो देवानामेव महिमानमिति सालोक्यसारूप्यसायुज्यलक्षणास्तिस्रो मुक्तय उक्ताः । ब्राह्मणो विद्वानिति ब्रह्मनिष्ठस्तत्त्वज्ञानवानुच्यते । एतौ कर्मोपासनापाप्यत्वेनोक्तो सूर्याचन्द्रमसोमहिमानौ । एतौ वै, एतादृशौ खलु सातिशयत्वावृतत्वानित्यत्वादिदोषोपेतत्वात् । "द्वितीयाद्वै भयं भवति" “स एको मानुष
१ . विष्णुशिवादि । २ ङ. ‘ता समानाटिता स' । ३ क. ङ. पितॄणा ।
For Private And Personal Use Only