SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः २ ] सूतसंहिता | पतिर्देवो हरो हर्ता भर्ता स्रष्टा पुरातनः ॥ महाग्रीवो महाधारः अत्ता विश्वाधिकः प्रभुः ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir २५३ महाधार इति । महाननवच्छिन्न आधारो विस्तारो यस्य स महाधारः स्वात्मनि परिकल्पितस्य मायातत्कार्यंजातस्य रज्जुरिव सर्पदेराश्रयः । अत्तेति । "यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति काठक श्रुतिः ॥ १३ ॥ महर्षिर्भूतपालोऽग्निराकाशो हरिरव्ययः ॥ ४ प्राणो ज्योतिः पुमान्भीमः अन्तर्यामी सनातनः ॥ १४॥ भूतपाल इति । " एष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदाय" इति काण्वश्रुतिः । अग्निरिति । "तेजो रसो निरवर्ततानिः " इति हि श्रूयते । आकाश इति । “आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणः" इति च्छान्दोग्यम् । प्राण इति । " प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्स्व" इति कौषीतकी श्रुतिः । ज्योतिरिति । " तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्" इति माध्यंदिनश्रुतिः । अन्तर्यामीति । " एषोऽन्तर्याम्येष पोनिः सर्वस्य " इति माण्डक्योपनिषत् ॥ १४ ॥ अक्षरो दहरः साक्षादपरोक्षः स्वयंप्रभुः ॥ असन आत्मा निर्देदः प्रत्यगात्मादिसंज्ञितः ॥ १५ ॥ अक्षर इति । " एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति” इति वाजसनेयश्रुतिः । दहर इति । "दहरोऽस्मिन्नन्तरोकाशः" इति च्छान्दोग्योपनिषत् ॥ १५ ॥ उमासहायो भगवान्नीलकण्ठस्त्रिलोचनः ॥ ब्रह्मणा विष्णुना चैव रुद्रेणापि सदा हृदि ॥ १६ ॥ उपास्यमानः सर्वात्मा सर्ववस्तुविवर्जितः ॥ कृपया केवलं विष्णुं विश्वमूर्तिर्वृषध्वजः ॥ अनुगृह्याब्रवीद्दिप्रा देवो मधुरया गिरा । किमर्थं तप्तवान्विष्णो महाघोरं तपश्चिरम् ॥ १८ ॥ १७ ॥ ॥ १६ ॥ १७ ॥ १८ ॥ For Private And Personal Use Only १ घ. 'र्ता स्रष्टा पाता । २ ग. महाधीरो । ३ ङ. "स्य मायार । ४ ग. घ. 'निव । ५६. 'रात्माऽऽका' ।
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy