________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
___ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेअनेकजन्मसंसिद्धैः श्रौतस्मार्तपरायणैः ॥ शिवभक्तैर्महाप्राज्ञैरेव प्राप्यं महत्तरम् ॥५॥ अवैदिकैश्च पापिष्ठर्वेदनिन्दापरैरपि ॥ देवतादूषकैरन्यैरप्राप्यमतिशोभनम् ॥ ६॥ अनेककोटिभिः कल्पैर्मया मद्गुरुणांऽथ वा । ब्रह्मनारायणाभ्यां वा न शक्यं वर्णितुं बुधैः ॥७॥ प्राप्य साक्षान्महाविष्णुः सर्वलोकेश्वरो हरिः॥ तताप परमं घोरं तपः संवत्सरत्रयम् ॥ ८॥ ततः प्रसन्नो भगवान्भवो भक्तहिते रतः ॥
सर्वलोकजगत्सृष्टिस्थितिनाशस्य कारणम् ॥९॥ उत्तरकैलासमिति । क्षेत्रविशेषकृतेन तपसा क्षपितकल्मषाणामेव यथोक्तविषय उपदेशः क्रियमाणः फलपर्यन्तो भवति नान्यथेति विवक्षया तदुपन्यासः ॥ ४॥५॥६॥७॥८॥९॥
सर्वज्ञः सर्ववित्साक्षी सर्वस्य जगतः सदा ॥ परमार्थपरानन्दः परज्ञानघनादयः ॥ १०॥ शिवः शंभुमहादेवो रुद्रो ब्रह्म महेश्वरः ॥
स्थाणुः पशुपतिर्विष्णुरीश ईशान ईश्वरः ॥ ११॥ परमार्थ इति विषयानन्दवन्नाभिमानमात्रसिद्धः परमानन्दः । परज्ञानघन इत्यखण्डैकरसत्वम् ।। १० ।। ११ ।।
परमात्मा परः पारः पुरुषः परमेश्वरः॥
पुराणः परमः पूर्णस्तत्त्वं काष्ठा परा गतिः ॥ १२॥ काष्ठेति । “पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः" इति काठकश्रुतिः ॥ १२॥
१३. सिद्धपै श्री' । २ ग. ‘णा तथा । ३ ङ. वर्णितं । ४ क. ख. ग. बुधाः।
For Private And Personal Use Only