________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१
अध्यायः २]
सूतसंहिता। इति श्रीस्कन्दपुराणे मुतसंहितायां मुक्तिखण्डे मुक्तिमुक्त्युपायमोचकमोचकपदचतुर्विधप्रश्न
निरूपणं नाम प्रथमोऽध्यायः॥१॥ मुक्तिः सायुज्यादि । तदुपायो ज्ञानम् । मोचकः शिवः । तत्प्रदस्तज्ज्ञापक आचार्यः । अन्यच्चेति च षष्ठाध्यायादिषु वक्ष्यमाणज्ञानोत्पत्तिकारणादि ।। ३७ ॥ ३८ ॥ ३९ ॥ ४०॥
इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मुक्तिमुक्त्युपायमोचकमोचकपदचतुर्विधप्रश्ननिरूपणं नाम
प्रथमोऽध्यायः॥१॥
(अथ द्वितीयोऽध्यायः)
सूत उवाच
शृणुध्वं वेदविन्मुख्याः श्रद्धया सह सुव्रताः॥ पुरा नारायणः श्रीमान्सर्वभूतहिते रतः ॥ १॥ किरीटकेयूरधरो रत्नकुण्डलमण्डितः॥ पीतवासा विशालाक्षः शङ्खचक्रगदाधरः॥२॥ कुन्देन्दुसदृशाकारः सर्वाभरणभूषितः॥
उपास्यमानो मुनिभिर्देवगन्धर्वराक्षसैः ॥३॥ पर्यनुयुक्तः सूतो मुनिभ्यो वक्तुमारभमाणो वक्तव्यस्प मुक्त्यादिचतुष्टयस्यात्यन्तदुर्लभत्वेन तत्र तेषां श्रद्धातिशयजननाय स्वगर्वपरिहाराय यथावदुपसन्नाय जिज्ञासमानाय विष्णवे शिवेनोक्तैरेव वचनैस्तच्चतुष्टयं प्रतिपादयितुमाहशृणुध्वमित्यादिना ॥ १ ॥२॥३॥
श्रीमदुत्तरकैलास पर्वतं पर्वतोत्तमम् ॥ स्मरणादेव सर्वस्य पापस्य तु विनाशकम् ॥ ४॥
१ घ. 'सं गतो वै पवतो।
For Private And Personal Use Only