________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श्रीः॥ ॥ अथ तृतीयं मुक्तिखण्डम् ॥
सौम्यं महेश्वरं साक्षात्सत्यविज्ञानमहयम् ॥ वन्दे संसाररोगस्य भेषजं परमं मुदा ॥१॥ यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी ॥ तमहं शंकरं वन्दे महामायानिवृत्तये ॥२॥ यस्य विघ्नेश्वरः श्रीमान्पुत्रः स्कन्दश्च वीर्यवान् । तं नमामि महादेवं सर्वदेवनमस्कृतम् ॥३॥ यस्य प्रसादलेशस्य लेशलेशलवांशकम् ॥ लब्ध्वा मुक्तो भवेजन्तुस्तं वन्दे परमेश्वरम् ॥४॥ यस्य लिङ्गार्चनेनैव व्यासः सर्वार्थवित्तमः॥ अभवत्तं महेशानं प्रणमामि घृणानिधिम् ॥५॥ यस्य मायामयं सर्व जगदीक्षणपूर्वकम् ॥ तं वन्दे शिवमीशानं तेजोराशिमुमापतिम् ॥ ६॥ यः समस्तस्य लोकस्य चेतनाचेतनस्य च ॥ साक्षी सर्वान्तरः शंभुस्तं वन्दे साम्बमीश्वरम् ॥७॥ यं विशिष्टा जनाः शान्ता वेदान्तश्रवणादिना ॥
जानन्त्यात्मतया वन्दे तमहं सत्यचित्सुखम् ॥८॥ एवं ज्ञानोपायमभिधाय ज्ञानफलभूताया मुक्तेः परमप्रयोजनत्वात्तस्याः सोपकरणाया अभिधानारम्भे सपरिवारशिवप्रणिधानप्रणामलक्षणं मलाचरणं कृतमुपनिबधाति व्यासः श्लोकाष्टकेन सौम्यमित्यादिना । सकलकल्याण गुणगणनिधेरपि भगवतो मुक्तिपदानावसरे तदुपाधिकगुणविशिष्टतयैव प्रणिधानमु. चितम् "तं यथा यथोपासते तथैव भवति" इति श्रुतेरिति सौम्यत्वसत्यज्ञानत्वसंसारवैद्यत्वगुणानामुपन्यासः ॥ १ ॥२॥ ३ ॥ ४ ॥ ५॥६॥७॥८॥
घ. तस्य । २ घ. तस्य । ३ ग. साक्षात्सर्वेतरः । ४ घ. कृपया त।५ क. ख. गनि। ६ ग. ङ, श्रुतिरि । ७ घ. ति साम्य । इ. 'ति सौम्यतरत्व।
For Private And Personal Use Only