SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः २० ] सूतसंहिता | तस्माद्दिज्ञानतो मुक्तिर्नान्यथा कर्मकोटिभिः ॥ कर्मसाध्यस्य नित्यत्वं न सिध्यति कदाचन ॥ ३० ॥ ज्ञानं वेदान्तविज्ञांनमज्ञानमितरन्मुने ॥ अहो ज्ञानस्य माहात्म्यं मया वक्तुं न शक्यते ॥३१॥ अत्यल्पोऽपि यथा वह्निः सुमहन्नाशयेत्तमः ॥ ज्ञानाभ्यासस्तथाऽल्पोऽपि महत्पापं विनाशयेत् ॥३२॥ निर्वृतस्तृप्तो मुक्त इत्यर्थः || २८ || २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ यथा वह्निर्महादीप्तः शुष्कमात्रै च निर्दहेत् ॥ तथा शुभाशुभं कर्म ज्ञानाग्निर्दहति क्षणात् ॥ ३३ ॥ पद्मपत्रं यथा तोयैः स्वस्थैरपि न लिप्यते ॥ तथा शब्दादिभिर्ज्ञानी विषयैर्न हि लिप्यते ॥ ३४ ॥ मन्त्रौषधिबलैर्यद्वज्जीर्यते भक्षितं विषम् ॥ तद्दत्सर्वाणि पापानि जीर्यन्ते ज्ञानिनः क्षणात् ॥ ३५॥ पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन् ॥ प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ॥ ३६ ॥ अकर्ताऽहमभोक्ताऽहमसङ्गः परमेश्वरः ॥ सदा मत्संनिधानेन चेष्टते सर्वमिन्द्रियम् ॥ ३७ ॥ इतिविज्ञानसंपन्नः सङ्गं त्यक्त्वा करोति यः ॥ लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ३८ ॥ ये द्विषन्ति महात्मानं ज्ञानवन्तं नराधमाः ॥ पच्यन्ते रौरवे कल्पमेकान्ते नरके सदा ॥ ३९ ॥ शुष्कमा चेति । परस्परविरोधिनोः शुभाशुभपोरेकरूपेण ज्ञानेन दाहे निदर्शनम् ॥ ३३ ॥ ३४ || ३६ || ३६ || ३७ || ३८ ॥ ३९ ॥ दुर्वृत्तो वा सुवृत्तो वा मूर्खः पण्डित एव वा ॥ ज्ञानाभ्यास परः पूज्यः किं पुनर्ज्ञानवान्नरः ॥ ४० ॥ १६. ज्ञानं विज्ञा' । For Private And Personal Use Only २४३
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy