SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे-- उक्तसमाधिनिष्ठस्य फलमाह-यस्यैवमिति । परमं भावमित्येतद्गतखण्डतृतीयाध्याये निरूपितम् ॥ २२ ॥ यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ॥ योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ॥ २३ ॥ यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ॥ सर्वभूतेषु चाऽऽत्मानं ब्रह्म संपद्यते तदा ॥२४॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ॥ एकीभूतः परेणासौ तदा भवति केवलः ॥२५॥ योगिन इति । व्यवधायकस्याज्ञानस्य निरासात्स्वयं ब्रह्म संपद्यत इत्यर्थः ॥ २३ ॥ २४ ॥ २५ ॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ॥ तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ २६ ॥ __ यदा सर्व इति । तज्ज्ञानेनाज्ञाननिरासात्तत्कार्यनिवृत्तौ "योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते" "ब्रह्मैव सन्ब्रह्माप्येति" इति श्रुत्युक्तं ब्रह्म संपद्यत इत्यर्थः ॥ २६ ॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति ॥ तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥२७॥ यदा भूतेति । भूतानां पृथिव्यादीनां यः पृथग्भावो भेदः स सर्व एकस्मिन्नेव ब्रह्मणि प्रलयदशायां तादात्म्येन स्थित्वा पुनः सृष्टौ तत एव विस्तारं प्रतिपद्यत इति यः पश्यति स ब्रह्म संपद्यत इत्यर्थः । श्रुतिपुराणयोरयं समानः पाठः ॥ २७ ॥ यदा पश्यति चाऽऽत्मानं केवलं परमार्थतः ॥ मायामानं जगत्कृस्त्रं तदा भवति 'निर्वृतः ॥२८॥ यदा जन्मजरादुःखव्याधीनामेकमेषजम् ॥ केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥२९॥ १ क. ख. ग. घ. 'तीभावः क्षे। २ क ख. घ. 'वलीय' । ३ ग. ङ. स्थितः । ४ घ, निर्वृतिः । ५ इ. 'तेऽस्मै त। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy