SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४४ तात्पर्यदीपिका समेता [२ज्ञानयोग खण्डे ज्ञानाभ्यासपर इति । ज्ञानसाधनयोगाङ्गयमाद्यभ्यासवानपि पूज्यः किं पुन र्ज्ञानीत्यर्थः ॥ ४० ॥ Acharya Shri Kailassagarsuri Gyanmandir निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शिनम् ॥ अनुव्रजाम्यहं नित्यं पृ॑येयेत्यङ्घ्रिरेणुभिः ॥ ४१ ॥ यथा राजा जनैः सर्वैः पूज्यते मुनिसत्तम ॥ तथा ज्ञानी सदा देवैर्मुनिभिः पूज्य एव हि ॥ ४२ ॥ यस्य गेहं समुद्दिश्य ज्ञानी गच्छति सुव्रत ॥ तस्य क्रीडन्ति पितरो यास्यामः परमां गतिम् ॥ ४३ ॥ यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते ॥ तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥ ४४ ॥ कुलं पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती च तेन ॥ अपारसच्चित्सुखसागरे सदा विलीयते यस्य मनःप्रचारः ॥ ४५ ॥ निरपेक्षमिति । विवेकविज्ञानातिरिक्तस्य निष्कलत्वावधारणाद्विवेकविज्ञानस्य प्राप्तत्वात्कंचिदप्यपेक्षारहितमित्यर्थः । समदर्शिनमिति । तथाच भगवतोक्तम् "सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते " इति ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ महात्मनो ज्ञानवतः प्रदर्शनात् सुरेश्वरत्वं झटिति प्रयाति ॥ विर्हाय संसारमहोदधौ नरा रमन्ति ते पापबला हो मुने ॥ ४६ ॥ महानिधिं प्राप्य विहाय तं वृथा विचेष्टते मोहबलेन बालकः ॥ यथा तथा ज्ञानिनमीश्वरेश्वरं विहाय मोहेन चरन्ति मानवाः ॥ ४७ ॥ १ ग. 'दर्शन' । २ म, ङ. पूजयेत्य । ३ ङ. हारसं । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy