________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेसोऽहं ब्रह्म न संसारी न मत्तोऽन्यत्कदाचन ॥
इति विद्यात्स्वमात्मानं स समाधिः प्रकीर्तितः॥१२॥ तान्यपीति । "पर्यायेणानुक्रमोऽत उपपद्यते च” इति न्यायेन पृथिव्यादिक्रमेण मायायां तामप्यात्मनि बुद्धयैव प्रविलाप्य परिशिष्टेऽद्वितीये केवलमास्मनि स्वात्मतादात्म्येनानुसंधानं समाधिरित्यर्थः ॥ ११ ॥ १२ ॥
अथवा योगिनां श्रेष्ठ प्रणवात्मानमीश्वरम् ।।
वर्णत्रयात्मना विद्यादकारादिक्रमेण तु ॥ १३॥ वाच्यवाचकप्रपञ्चस्य ब्रह्मणि परिकल्पितत्वात्मणववाच्यस्थूलसूक्ष्मप्रपश्वस्य सकारणस्योपसंहारद्वारा निष्कलब्रह्मणि समाधिमभिधाय वाचकपणवावयवानामकारोकारमकारार्धमात्रारूपाणां सकारणानां प्रविलापनं ब्रह्मणि समाघिमिदानीमाह--अथवा योगिनामिति ।
"प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतम् । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्” इति झुक्तम् ॥ १३ ॥ ऋग्वेदोऽयमकाराख्य उकारो यर्जुरुच्यते ॥
मकारः सामवेदाख्यो नादस्त्वाथर्वणी श्रुतिः॥ १४॥ अकारोकारमकारनादानां वेदचतुष्टयात्मकत्वमाह-ऋग्वेद इति ॥ १४ ॥
अकारो भगवान्ब्रह्मा तथोङ्कारो हरिः स्वयम् ॥
मकारो भगवान्रुद्रस्तथा नादस्तु कारणम् ॥ १५॥ तेषामेव ब्रह्मविष्णुरुद्रतत्कारणात्मकतामाह-अकार इति ।। १५ ॥
अग्नयश्च तथा लोका अवस्थावसथास्त्रयः॥
उदात्तादिस्वराः कालाश्चैते वर्णत्रयात्मकाः ॥१६॥ तेषामेव गार्हपत्यदक्षिणाहवनीयसंवर्तकाग्निरूपात्मकतामाह-अग्नय इति । लोका इति तु पृथिव्यन्तरिक्षासोमलोकात्मकतां दर्शयति । अवस्था इति जाग्रत्स्वप्नमुषुप्ततुरीयात्मकतामाह । आवसथा इति नाभिहृदयकण्ठमूर्धात्मकतामाह । त्रय इति संवर्तकादीनां चतुर्थानामप्युपलक्षणम् । उदात्तादीति,
१ ग. घ. 'ति । विपर्ययेण तु क'। ङ. ति। विपर्ययेणानुक्रमो नोप। २ . 'त्मका वि। ३ क. ख. घ. 'च्यप्र । ४ घ स्वात्प्राणवा' । ५ अ. 'जुरेव च । म । ६ क. 'रूपक।। ७ कु. 'तुर्यात्म।
For Private And Personal Use Only