SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२०] सूतसंहिता। २३९ यथाऽऽकाशो घटाकाशो महाकाश इतीरितः॥ तथा भ्रान्तैर्दिधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ॥५॥ स भिद्यत इति । माययाऽज्ञानेन जनिता या भ्रान्तिविपरीतज्ञानं तया भेदो गृह्यते । प्रमेयभेदग्रहणस्य "नेह नानास्ति" इतिश्रुतिबाधितत्वेन भ्रान्तित्वादित्यर्थः ॥ ४ ॥५॥ नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ॥ न मनोऽहं न बुद्धिश्च नैव चित्तमहंकृतिः ॥६॥ अविद्ययाऽऽत्मतादात्म्येनाध्यस्तस्य देहेन्द्रियमनःप्राणादेविमर्शजनितेन विवेकज्ञानेन निरासमभिनयेन दर्शयति-नाहं देह इति ॥ ६ ॥ नाहं पृथ्वी न सलिलं न च वह्निर्न चानिलः ॥ न चाऽऽकाशो न शब्दश्च न च स्पर्शस्तथा रसः॥७॥ नाहं गन्धो न रूपं च न मायाऽहं न संमृतिः ॥ सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ॥ ८॥ यथा भूत कार्यस्प देहादेविवेक एवं तत्कारणस्य पृथिव्यादिभूतजातस्य चेत्याह-नाहं पृथ्वीति ॥ ७ ॥ ८ ॥ इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ॥ अथवा पञ्चभूतेभ्यो जातमण्डं महामुने ॥ ९ ॥ भूतमात्रतया दग्ध्वा विवेकेनैव वह्निना ॥ पुनः स्थूलादिभूतानि सूक्ष्मभूतात्मना तथा ॥ १० ॥ सकारणाद्भुतभौतिकप्रपश्चादात्मानं बुद्धयैव विविच्य विविक्ते तस्मिन्समाधिरुक्तः । अधुनातं प्रपञ्च बुद्धयैव पविलाप्य परािंशष्टे तस्मिन्नद्वितीये समाधिमाहअथवा पञ्चेति । "तदनन्यत्वमारम्भणशब्दादिभ्यः" इति न्यायेन भौतिकं ब्रह्माण्डं पञ्चीकृतभूतात्मना तानि च भूतान्यपञ्चीकृतभूतात्मना ॥ ९॥ १० ॥ 'विलाप्यैवं विवेकेन ततस्तान्यपि बुद्धिमान् ॥ मायामात्रतया दग्ध्वा मायां च प्रत्यगात्मना ॥११॥ १५. इ. स्त३ । २ २. 'नयत्वेन । ३ ५. विवाश्येवं । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy