SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३८ तात्पर्यदीपिकासमेता [२ज्ञानयोगखण्डे सर्वमुक्तं समासेन मया वेदान्तसंग्रहम् ॥ मत्प्रसादाद्विजानीहि माशङ्किष्ठाः कदाचन ॥ ४१ ॥ इति श्रीस्कन्दपुराणे सुतसंहितायां ज्ञानयोग खण्डे ध्यानविधिनिरूपणं नामैकोनविंशोऽध्यायः ||१९|| Acharya Shri Kailassagarsuri Gyanmandir अत्र सगुणध्यानानि चिचैकाथ्र्यद्वारा पापक्षयद्वारा वा निष्कलसाक्षात्कारे कारणम् । निष्कलं ध्यानं त्वव्यवधानेनेत्याह - एवमभ्यासेति ॥ ३९ ॥ ४० ॥ ॥ ४१ ॥ इति श्रीसूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे ध्यान विधिनिरूपणं नामैकोनविंशोऽध्यायः ॥ १९ ॥ ( अथ विंशोऽध्यायः ) ईश्वर उवाच - अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् ॥ समाधिः संविदुत्पत्तिः परजीवैक्यतामतिः ॥ १ ॥ यतः साधनभूतध्यानस्वरूपज्ञानायैत्ता तत्फलसंविदः समाविपर्यायांया उत्पत्तिः । अतस्तदनन्तरं तदभिधानमिति प्रतिजानीते -- अथात इति । महावाक्यलक्ष्यस्वरूपसाक्षात्कार एव समाधिरिह विवक्षित इत्यर्थः ॥ १ ॥ यदि जीवः पराद्भिन्नः कार्यतामेति सुव्रत ॥ अचित्त्वं च प्रसज्येत घटवत्पण्डितोत्तम ॥ २ ॥ विनाशित्वं भयं च स्याद्वितीयादा इति श्रुतिः ॥ नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥ ३ ॥ ध्यानफलभूत व विमर्श स्वरूपफलमाह - यदि जीव इति । " कस्मोद्धयमेद्वतीयाद्वै भयं भवति" इति वाजसनेय श्रुतिरित्यर्थः ॥ २ ॥ ३ ॥ एकः स भिद्यते भ्रान्त्या मायया न स्वरूपतः ॥ तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ॥ ४ ॥ १ क. ख. 'वैकता ं । २ ङ. य तत्तत् । ३. यानुत्प४ घ तत्व । ५० माय में । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy