SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१९] सूतसंहिता। प्रत्यक्तादात्म्येनैवानुसंधाननियमे कारणमाह-इदंतयेति । नेदं यदिति हि श्रुतिरिति । "यच्चक्षुषा न पश्यति येन चढूंषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इति तलवकरोपनिषत्पराक्त्वेन ब्रह्मणोऽनुसंधानं प्रत्याचष्ट इत्यर्थः ॥३०॥ ॥ ३१ ॥ ३२ ॥ अथवा विष्णुमव्यक्तमाधारं देवनायकम् ॥ शङ्खचक्रधरं देवं पद्महस्तं सुलोचनम् ॥ ३३ ॥ किरीटकेयूरधरं पीताम्बरधरं हरिम् ॥ श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम् ॥ ३४ ॥ पद्मपुष्पदलाभोष्ठं सुप्रसन्नं शुचिस्मितम् ॥ शुद्धस्फटिकसंकाशमहमित्येव चिन्तयेत् ॥ ३५॥ एतच्च दुर्लभं प्रोक्तं योगशास्त्रविशारदैः॥ अथवा देवदेवेशं ब्रह्माणं परमेष्ठिनम् ॥ ३६ ॥ अक्षमालाधरं देवं कमण्डलुकराम्बुजम् ॥ वरदाभयहस्तं च वाग्देव्या सहितं सदा ॥ ३७॥ कुन्देन्दुसदृशाकारमहमित्येव चिन्तयेत् ॥ अथवाऽनिं तथाऽऽदित्यं चन्द्रं वा देवतान्तरम् ॥३८॥ सकलनिष्कलात्मकस्य शिवस्य तादात्म्या ध्यानान्युक्त्वा विष्ण्वादीनामपि सकलध्यानान्याह-अथवा विष्णुमित्यादि । निष्कलं तु विशेषाभावात्तदेव भविष्यतीति न पृथगुक्तम् ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ।। ३७ ॥ ३८ ॥ वेदोक्तेनैव मार्गेण सदाऽहमिति चिन्तयेत् ॥ एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ॥ ३९॥ क्रमावेदान्तविज्ञानं विजायेत न संशयः॥ ज्ञानादज्ञानविच्छित्तिः सैव तस्य 'विमुक्तता॥४०॥ १ ङ. प्रत्यगात्म्ये । २ क. पश्यन्ति । ३ घ. 'नुसंधाना । ४ ङ, विविक्तता । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy