SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेपमस्थूलमनाकाशमित्यादयोद्वैतादिनिषेधमुखेन लक्ष्ये पर्यवस्यन्ति । सत्यादयस्तु स्वार्थार्पणप्रणाड्येति विशेषः । तदुक्तमाचार्यैः-- "तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम् । स्वार्थार्पणप्रणाड्या तु परिशिष्टे विशेषणम्" इति । वाजसनेयश्रुतिरप्यतद्यावृत्तिमुखेनैवैतदेव लक्ष्यं निर्दिशति "एतद्वै तदक्षरं गानि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमस्पर्शमगन्धमरसमचक्षुष्कमश्रोत्रम्" इत्यादि ।प्रकृत्याsमूर्तमपि मायया मूर्तम् ॥ २६ ॥ अदृश्यं दृश्यमन्तस्थं बहिष्ठं सर्वतोमुखम् ॥ सर्वतःपाणिपादं च सर्वकारणकारणम् ॥ २७॥ सर्वज्ञानादिसंयुक्तमहामित्येव चिन्तयेत् ॥ अयं पन्था मुनिश्रेष्ठ साक्षात्संसारनाशने ॥२८॥ एवमदृश्यं दृश्यमव्ययं तत्त्वावबोधपर्यन्तमनिवृत्तोपाधिकम् । अन्तस्थमिति । "अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः" इति हि श्रुतिः ॥ २७ ॥ ॥२८॥ अथवा सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ॥ अहमस्मीत्यभिध्यायेद्धयेयातीतं विमुक्तये ॥२९॥ उक्ते वाच्यार्थपूर्वकलक्ष्यानुसंधानेक्षणे सति वाच्यानुसंधानपि त्यक्त्वा लक्ष्य एवार्थोऽनुसंधेय इत्याह-अथवा सञ्चिदिति । सच्चिदानन्दादयः शब्दा लक्षणयाऽखण्डैकरसमेव स्वरूपं समर्थयन्ति ॥ २९ ॥ इदंतया न देवेशमभिध्यायेन्मनागपि ॥ ब्रह्मणः साक्षिरूपत्वानेदं यदिति हि श्रुतिः ॥ ३०॥ एवं ध्यानपरः साक्षाच्छिव एव न चान्यथा ॥ अनेन सदृशो लोके नहि वेदविदां वर ॥ ३१ ॥ प्रक्षीणाशेषपापस्य ज्ञाने ध्याने भवेन्मतिः॥ पापोपहतबुद्धीनां तबार्ताऽपि सुदुर्लभा॥३२॥ १ घ. 'शिष्ये वि । २ क. घ. ङ. 'रप्येत' । ३ घ. निर्देशयति । ४ ख. घ. ङ. समर्पयन्ति । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy