________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१९] मृतसंहिता।
२३३ उक्तलक्षणं परशिवमग्नौ वा स्वीकृतवक्ष्यमाणदिव्यावतारं ध्यायेदित्याहअथवा वैदिक इति । परब्रह्म सगुणमनावुपास्यत्वेनोक्तं हि बालाकिनैव-“य एवायमग्नौ पुरुष एतेमवाहं ब्रह्मोपासे” इति । उक्ताश्चन्द्रादित्याग्नयः शिवमूतित्वेनाऽऽगमेष्वपि प्रसिद्धाः
"क्ष्मावह्रियजमानार्कजलवातेन्दुखानि च ॥ कीर्तिता मूर्तयो ह्यष्टौ” इति ॥ ८॥९॥ १०॥ ११ ॥ अथवाऽहं हरिः साक्षात्सर्वज्ञः पुरुषोत्तमः ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १२ ॥ आदित्यमूर्तिवद्विष्णुमूर्तावपि परशिवस्य वक्ष्यमाणलीलावतारस्य स्वात्म्य. तादात्म्येन ध्यानमाह-अथवेति । तत्र प्रथमतो विष्णुमूर्तेरपि स्वात्मतादा. रम्यानुसंधानमाह-अहं हरिरिति । सहस्रशीर्षा ब्रह्मादिपिपीलिकान्तसर्वप्राणिषु वर्तमानानि सहस्राण्यनन्तानि शीर्षाणि शिरांसि यस्येति स तथोक्तः । पुरुषः पूर्णः । सहस्राक्षः सहस्राण्यनन्तानि प्रजासंबन्धीन्यक्षीणीन्द्रियाणीति सहस्राक्षः । एवं सहस्रपादिति ॥ १२ ॥
विश्वो नारायणो देवः अक्षरः परमः प्रभुः ॥
इति ध्यात्वा पुनस्तस्य हृदयाम्भोजमध्यमे ॥१३॥ विश्वो विश्वत्वेन स्थितः । नारायणः 'नू नये' पचाद्यच् । नरो नेता सर्वस्य स्वामी । तस्यापत्यानि नाराः सर्वे चेतना अचेतनाश्च । अपत्येऽण् । तेपामयनमधिष्ठानत्वेनाऽऽश्रयभूतं जलचन्द्राणां बिम्बचन्द्रवत्कलधौतादीनां शुक्तिकादिवदिति । नारायणः पूर्वपदात्संज्ञायामिति णत्वम् । देवो देवनशीलः । अक्षरो न क्षरतीति सर्वमश्रुत इति वाऽक्षरः । अशेः सरप्रत्ययेऽक्षरम् । परमः सर्वोत्कृष्टः । यद्वाऽक्षरः परमः परमाक्षरः परमव्यापको व्यापकानामपि व्यापकः । प्रभुः सर्वेषां प्रकर्षण भरणक्षमः । तदात्मकस्य स्वात्मनो हृदयाम्भोजमध्ये "पद्मकोशमतीकाशं हृदयं चाप्यधोमुखम्" इतिश्रुत्युक्ते ॥ १३ ॥
प्राणायामैर्विकसिते परमेश्वरमन्दिरे ॥
अष्टैश्वर्यदलोपेते विद्याकेसरसंयुते ॥ १४ ॥ रेचकमाणायामेन विकासीकृत्य, ऊर्ध्वमुखीकृतपरमेश्वरमन्दिरे। तत्र हि परमे
१ ख. 'न्यक्षाणी । २ क. ग. घ. ऋष्यण । ३ घ. कादीनां शुक्तिकावदि । ४ क. ख. "ति चाक्ष।
For Private And Personal Use Only