________________
Shri Mahavir Jain Aradhana Kendra
२३२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सात्पर्यदीपिका समेता
अथवाऽऽकाशमध्यस्थे भ्राजमाने सुशोभने ॥ आदित्यमण्डले पूर्णे लक्षयोजनविस्तृते ॥ ५ ॥
[२ज्ञानयोग खण्डे -
चन्द्रमण्डलवदादित्यमण्डलमप्याकाशे ध्यात्वा तत्र स्वीकृत दिव्यावतारं पर शिवमेवं ध्यायेदित्याह - अथवाऽऽकाशेति ॥ ५ ॥ सर्वलोकविधातारमीश्वरं हेमरूपिणम् ॥ हिरण्मयं श्मश्रुकेशं हिरण्मयनखं तथा ॥ ६ ॥
हेमरूपिणमिति । उद्गीथविद्यायामादित्यस्थस्य पुरुषस्य कतिचिदिदोक्ता हेमरूपत्वादिगुणाः श्रूयन्ते - " य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते । हिरण्यश्मश्रुर्हिरण्यकेश ओ प्रणखात्सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणि" इति ॥ ६ ॥
कप्यास्यासनवेद्वक्त्रं नीलग्रीवं विलोहितम् ॥ आगोपालप्रसिद्धं तमम्बिकार्धशरीरिणम् ॥ ७ ॥
कप्यास्पासनवदिति । कपीनां हि कंषांचिदास्यमासनं च रक्तवर्णं तथा रक्तवर्ण मुखमित्यर्थः । आगोपालमिति । श्रूयते हि रुद्राध्याये - "उतैनं गोपा अहशनदृशन्नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः" इति ॥ ७ ॥ सोऽहमित्यनिशं ध्यायेत्संध्याकालेषु वा नरः ॥ अथवा वैदिके शुद्धेऽप्यग्निहोत्रादिमध्यगे ॥ ८ ॥ आत्मानं जगदाधारमानन्दानुभवं सदा ॥ गङ्गाधरं विरूपाक्षं विश्वरूपं वृषध्वजम् ॥ ९ ॥ चतुर्भुजं समासीनं चन्द्रमौलि कपर्दिनम् ॥ रुद्राक्षमालाभरणमुमायाः पतिमीश्वरम् ॥ १० ॥ गोक्षीरधवलाकारं गृह्याद्रुह्यतरं सदा ॥ अत्यद्भुतमनिमबुद्ध्या विचिन्तयेत् ॥ ११ ॥
For Private And Personal Use Only
क. ग. आप आ नखा । २. द्रक्तं नी ।