SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः१९] सूतसंहिता। २३१ ब्रह्मैवाहमिति । "अयमात्मा ब्रह्म" इति श्रुतावात्मनः परमात्मतादात्म्याभिधानेनैव तदितरसमस्तवस्त्वात्मकत्वावगमादित्यर्थः ॥ १५ ॥ १६ ॥ १७ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे धारणाविधिनिरूपणं नामाष्टादशोऽध्यायः ॥ १८ ॥ (अथैकोनविंशोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम् ॥ आकाशे निर्मलं शुद्धं भासमानं सुशीतलम् ॥१॥ सोममण्डलमापूर्णमचलं दृष्टिगोचरम् ॥ ध्यात्वा मध्ये महादेवं परमानन्दविग्रहम् ॥२॥ उमार्धदेहं वरदमुत्पत्तिस्थितिवर्जितम् ॥ शुद्धस्फटिकसंकाशं चन्द्ररेखावतंसकम् ॥३॥ त्रिलोचनं चतुर्बाहुं नीलग्रीवं परात्परम् ॥ ध्यायेनित्यं सदा सोऽहमिति ब्रह्मविदां वर ॥४॥ यतो धारणाभ्यासेन परित्यक्तचापलस्य मनसो ध्यानयोग्यता, अतस्तदनन्तरं तदुच्यत इत्याह-अथात इति । तच्च सगुणनिर्गुणलक्षणविषयभेदेन द्विविधम् । तत्र सगुणध्यानान्याह-आकाश इत्यादि । आकाशे वर्तमानमुतलक्षणं सकललोकदृष्टिगोचरं चन्द्रमण्डलं प्रथमतो ध्यात्वा तन्मध्ये "विज्ञा. नमानन्दं ब्रह्म' इति श्रुत्युक्तं सच्चिदानन्दैकरसं परमेव ब्रह्मोमासहायत्वादि. यथोक्तलक्षणं स्वीकृतलीलावतारं शिवमात्मत्वेन ध्यायेदित्यर्थः । तथा च वाजसनेयके-बोलाक्यजातशत्रुसंवादे-“य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपासे” इति बालाकिनोक्ते नैतनिष्कलशिवस्वरूपं किंतु स्वीकृतलीलावतारं सकलमिदं रूपमित्यभिप्रायवताऽजातशत्रुणोक्तम् "मा मैतस्मिन्संवदिष्ठा बृहपाण्डरवासाः सोमो राजेति वा अहमेतमुपौसे” इति ॥ १ ॥ २॥ ३॥ ४॥ १०. बालस्याजा । २ घ. पासते” । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy