________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- २ज्ञानयोगखण्डे-- ठन्त इति भावयेदित्यर्थः । अव्यक्तमनभिव्यक्तम् । नामरूपानिकप्यमनिर्वचनीयम् । अचेतनं जडम् ॥ ११ : १२ ॥
इन्द्रियाणि समाहृय मनसाऽऽत्मनि धारयेत् ॥
कंचित्कालं महाप्राज्ञ धारणैषा च पूजिता ॥ १३॥ धारणान्तरमाह-इन्द्रियाणीति । मनसैव विषयेभ्य इन्द्रियाणि व्यावृत्य मन आत्मनि धारयेदित्यर्थः । इयं च कठवल्लीषु सविशेषं दर्शिता"यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि" इति ।। १३ ॥
वेदादेव सदा देवा वेदादेव सदा नराः॥
वेदादेव सदा लोका वेदादेव महेश्वरः ॥१४॥ वेदादेवेति । देवादयः सर्वे वेदशब्दभ्य एव सृष्टाः । "एते असृग्रमिन्दवस्तिरःपवित्रमाशवः" इति । अत्र मन्त्र एत इति वै प्रजापतिर्देवानसृजत । असमिति मनुष्यान् । इन्दव इति पितॄन् । तिर पवित्रमित्यन्याः प्रजा इति श्रुतेः ।
"ऋषीणां नामधेयानि कर्माणि च पृथक्पृथक् ॥
वेदशब्दभ्य एवाऽऽदौ निर्ममे स महेश्वरः" इति स्मृतावपि ऋषिपदस्य सर्वस्रष्टव्योपलक्षणार्थत्वात् । महेश्वरोऽपि वेदादेव ज्ञातव्यः "नावेदविन्मनुते तं बृहन्तं सर्वानुभवमात्मानं संपराये" इति॥१४॥
इति चित्तव्यवस्था या धारणा सा प्रकीर्तिता । ब्रह्मैवाहं सदा नाहं देवो यक्षोऽथवा नरः ॥ १५॥ ने देहेन्द्रियबुद्धयादिर्न माया नान्यदेवता ॥ इति बुद्धिव्यवस्थाऽपि धारणा सेति हि श्रुतिः॥१६॥ सर्व संक्षेपतः प्रोक्तं सर्वशास्त्रविशारद ॥
आगमान्तैकसंसिद्धमास्थेयं भवता सदा ॥ १७ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे धारणा
विधिनिरूपणं नामाष्टादशोऽध्यायः ॥ १८॥ १. घ. 'व महादेव वे । २ क. स. 'नुभुव । ३ ख. देहेन्द्रियमनोबुद्धिर्न। ४ घ. मा चेति ।
For Private And Personal Use Only