________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः १८ ]
सूतसंहिता |
उक्तानां वियदादीनां शरीरे धारणावस्थानविशेषात्सह तत्तदेवताभिराहजान्वन्त इति ॥ ४ ॥ ५ ॥
अग्न्यंशे च महेशानमीश्वरं चानिलांशके ॥ आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥ ६ ॥
महेशानं रुद्रं पञ्चधा विभक्तेषु पादादिषु शरीरप्रदेशेषु पृथिव्यादिपञ्चभूतास्मकतां तेषु च ब्रह्मविष्णुरुद्रेश्वर सदाशिवरूपतां च सदा भावयेदित्यर्थः ||६ ॥ अथवा तव वक्ष्यामि धारणां मुनिपुंगव || मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरिम् ॥७॥
अथवा तवेति । मनःप्रभृत्याध्यात्मिकशरीरभागेषु चन्द्रादीन्याधिदैविकरूपाणि तादात्म्येन भावयेत् । क्रान्ते क्रमणेनोपलक्षिते पादे | हरिमिन्द्रम् ||७|
I
वाच्यग्निं मित्रमुत्सर्गे तथोपस्थे प्रजापतिम् ॥ त्वचि वायुं तथा नेत्रे सूर्यमूर्ति तथैव च ॥ ८ ॥
२२२
उत्सृजत्य नेनेत्युत्सर्गेऽपानं तत्र ॥ ८ ॥
जिह्वायां वरुणं घ्राणे भूमिदेवीं तथैव च ॥ पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥ ९ ॥ धारये बुद्धिमान्नित्यं सर्वपापविशुद्धये ॥ एषा च धारणा प्रोक्तां योगशास्त्रार्थवेदिभिः ॥ १० ॥ पुरुषे जीवे | सर्वशास्तारं परमात्मानम् । "अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा" इति श्रुतेः ॥ ९ ॥ १० ॥
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ॥ सर्वकारणमव्यक्तमनिरूप्यमचेतनम् ॥ ११ ॥ साक्षादात्मनि संपूर्णे धारयेत्प्रयतो नरः || धारणैषा परा प्रोका धार्मिकैदपारगैः ॥ १२ ॥
For Private And Personal Use Only
-
धारणान्तरमाह — ब्रह्मादीति । ब्रह्मादीनामपि चिदंशाः स्वस्वकारणपरंपरया मायायां लीयन्ते । माया च परमात्मनि । ब्रह्मादयस्तु परमात्मरूपेणैव न्यवति
१ ग. क्ता वेदशा । २ ० . ग. मचि ।