SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२८ तात्पर्यदीपिकासमेता [२ज्ञानयोग खण्डे गुह्यात्पवनप्रत्याहारादपि विमर्शरूपस्य प्रत्याहारस्य विशेषमाह – गोपनीय इति ॥ १२ ॥ इति श्रीसूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे प्रत्याहारविधाननिरूपणं नाम सप्तदशोऽध्यायः ॥ १७ ॥ ( अथाष्टादशोऽध्यायः ) Acharya Shri Kailassagarsuri Gyanmandir ईश्वर उवाच अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत ॥ देहमध्यगते व्योनि बाह्याकाशं तु धारयेव ॥ १ ॥ प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे ॥ तोयं तोयांशके भूमिं भूमिभागे महामुने ॥ २ ॥ हेयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् ॥ धारणैषा मया प्रोक्ता सर्वपापविशोधिनी ॥ ३ ॥ यतः प्रत्याहारेण वशीकृतस्य चित्तस्य धारणासु योग्यता, अतस्तदनन्तरं ता उच्यन्त इति प्रतिजानीते - अथात इति । तत्र शरीरान्तर्वर्तिषु वियदादिषु पवर लवर्णैर्भूत बीजैः सह बाह्यविपयादितादात्म्येन बुद्धिर्धारयितव्या । एषा च धारणा सह फलेन श्वेताश्वतरोपनिषद वर्णिता ' "पृथ्व्य तेजांनिलखे रुमुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते | न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्" इति ॥ १ ॥ २ ॥ ३ ॥ जान्वन्तः पृथिवीभागो ह्यषां पाय्वन्त उच्यते ॥ हृदयान्तस्तथाऽग्न्यंशो भ्रूमध्यन्तोऽनिलांशकः ॥४॥ आकाशान्तस्तथा प्राज्ञ मूर्धान्तः परिकीर्तितः ॥ ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ॥ ५ ॥ १ घ हरवल ं । २ ग. शोषिणी ॥ ३ ॥ ३ . हरवल ं । ४ . वियदादि । ५ ख. *. 'catasia' For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy