________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२७
भध्यायः१७]]
सूससंहिता। "चित्तात्म्यैक्यधृतस्य प्राणस्य स्थानसंहतिः स्थानात् ।
प्रत्याहारो ज्ञेयश्चैतन्ययुतस्य सम्यगनिलस्य" इति । धारणास्थानानि तु तत्र कानिचिदधिकानि
"अङ्गष्टगुल्फजानुद्वितयानि गुदं च सीवनी मेढ़म् । नाभिर्हृदयं ग्रीवासलम्बिकायं तथैव नासा च । भूमध्यललाटाग्रं सुषुम्नाद्वादशान्तमित्येवम् ॥ उत्क्रान्तौ परकायप्रवेशने चाऽऽगतौ पुनः स्वतनौ ॥
स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः" इति ॥ १०॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥
प्रत्याहारोऽयमित्युक्तः पण्डितैः पण्डितोत्तम ॥
अथवा मुनिशार्दूल प्रत्याहारं वदामि ते ॥१५॥ विषयादिभ्यः प्रत्याहृत्य बुद्धरात्मनि धारणरूपं प्रत्याहारान्तरमाह-अथवा मुनिशार्दूलेति ॥ १५ ॥
देहाद्यात्ममति विद्वान्समाकृष्य समाहितः ॥ आत्मनाऽऽत्मनि निदे निर्विकल्पे निरोधयेत् ॥१६॥ प्रत्याहारः समाख्यातः साक्षाद्देदान्तवेदिभिः ॥
एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ॥ १७॥ आत्मना बुद्धया ॥ १६ ॥ १७ ॥
तस्य पुण्यं च पापं च नहि सत्यं बृहस्पते ॥
अयं ब्रह्मविदां श्रेष्ठः साक्षाद्देवेश्वरः पुमान् ॥१८॥ तस्य पुण्यं चेति । पापवद्भोगकारणं पुण्यमपि संसारावहतया हेयमेव । "तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इति मुण्डकश्रुतिः ॥ १८ ॥
प्रत्याहारः समाख्यातः संक्षेपेण महामुने ॥
गोपनीयस्त्वया नित्यं गुह्याद्गुह्यतरो ह्ययम् ॥ १९ ॥ इति श्रीस्कन्दपुराणे मुतसंहितायां ज्ञानयोगखण्डे प्रत्याहारविधाननिरूपणं नाम सप्तदशोऽध्यायः॥१७॥
For Private And Personal Use Only