SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ तात्पर्यदीपिकासमेता- ज्ञानयागखण्डेश्वरो ध्यातव्यत्वेन वक्ष्यते । अणिमादीन्यष्टैश्चर्याणि दलानि तैरुपेते तत्त्वविद्यारूपैः केसरैर्युते ॥ १४ ॥ ज्ञाननालमहत्कन्द प्रणवेन प्रबोधिते ॥ विश्वार्चिषं महावहिं ज्वलन्तं विश्वतोमुखम् ॥ १५॥ शास्त्रविषयं ज्ञानं नालं यस्य तस्मिन्महत्तत्त्वमेव कन्दो यस्य तस्मिन्प्रणवेन प्रबोधिते प्रागुक्तविकासे प्रणवदिवाकरस्य कारणतोच्यते । उक्तहृदयकमलमध्यगतमुषुम्नायामन्तर्वक्ष्यमाणवह्निशिखायाः कारणभूतं मूलाधारस्थं वैश्वानरमाह--विश्वार्चिषमिति । विश्वार्चिषं सर्वतःमसरज्ज्वालम् । विश्वतोमुखं विश्वावकाशोदीर्णमुखसामर्थ्यम् ॥ १५ ॥ वैश्वानरं जगद्योनि शिखातन्विनमीश्वरम् ॥ तापयन्तं स्वकं देहमापादतलमस्तकम् ॥ १६ ॥ निर्वातदीपवत्तस्मिन्दीपितं हव्यवाहनम् ॥ नीलतोयदमध्यस्थं विद्युल्लेखेव भास्वरम् ॥ १७॥ जगद्योनिम् । यद्धि जगदुपादानं परमात्मज्योतिस्तत्पतीकत्वेन तदात्मकमिदं मूलाधारस्थं ज्योतिस्तेन जगद्योनिरित्युच्यते । तत्पतीकत्वं च श्रूयते छान्दोग्ये-"अथ यदतः परो दिवो ज्योतिर्दीप्यते" इत्यारभ्य "इदं वाव तर्याददमन्तः पुरुष ज्योतिः" इति । शिखां तनोतीति शिाखतन्विनम् । औणादिको विनिप्रत्ययः । तापयन्तमिति | श्रूयते च तैत्तिरीयोपनिषदि"संतापयन्ति स्वं देहमापादतलमस्तकम्" इति ॥ १६ ॥ १७ ॥ नीवारशुकवद्रपं पीताभासं विचिन्तयेत् ।। तस्य वह्नः शिखायां तु मध्ये परमकारणम् ॥ १८ ॥ परमात्मानमानन्दं परमाकाशमीश्वरम् ॥ ऋतं सत्यं परं ब्रह्म साम्बं संसारभेषजम् ॥ १९॥ ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं महेश्वरम् ॥ नीलग्रीवं स्वमात्मानं पश्यन्तं पापनाशनम् ॥२०॥ तस्य वर्तरिति । श्रूयते च तस्याः शिखाया मध्ये तु परमात्मा व्यवस्थित इति ॥ १८॥ १९ ॥२०॥ १ न्यायैश्च । २ क. ग. विती । ३ क. ग... "न्वितम् । ४ ग. ललिशि । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy