SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे-- ज्ञानान्मिथ्याज्ञाननिवृत्तौ तन्निबन्धनरागाद्यभावेन धर्माधर्मप्रवृत्तिविरहे तदुभयफलभोगनिमित्तस्य शरीरपरिग्रहस्याभावाहुःखात्यन्तनिवृत्तिरपवर्गो भवतीत्याह--आत्मस्वरूपेति । तथा च गौतमसूत्रम्- “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः" इति ॥ ६२॥ ६३ ।। ।। ६४ ।। ६५ ।। ६६ ।। सर्वमुक्तं समासेन तव स्नेहान्महामुने ॥ गोपनीयं वयैवैष वेदान्तार्थो महामुने ॥ ६७॥ इति श्रीस्कन्दपुराणे मूतसंहितायां ज्ञानयोगखण्डे प्राणायामविधिनिरूपणं नाम षोड शोऽध्यायः ॥ १६ ॥ गोपनीयमिति । ज्ञानस्यैव हेतुत्वं कर्मणामहेतुत्वं च यद्यपि सकलवेदान्तार्थस्तथाऽपि मुर्खेषु न प्रकाशनीयम् । "न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्" इति गीतामु भगवतोक्तमित्यर्थः ।। ६७ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे प्राणायामविधि निरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥ ( अथ सप्तदशोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने ।। इन्द्रियाणां विचरतां विषयेषु स्वभावतः॥१॥ यतो जितप्राणस्यैवेन्द्रिनियमनहेतुप्रत्याहारसंभवः, अतस्तदनन्तरं स उच्यत इत्याह-अथात इति । लक्षणमाह-इन्द्रियाणामिति । आह-पतअलि:-"स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः" इति ॥१॥ ख. घ. नीयस्त्वयै । २ ख. 'नीय इति । ३ घ. संयो। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy