________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः १६]
सूतसंहिता ।
यज्ञैर्देवत्वमाप्रोति तपोभिर्ब्रह्मणः पदम् ॥ दानैर्भोगानवाप्नोति ज्ञानाद्वह्माधिगच्छति ॥ ५८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२२३
चराचरजगज्जातस्य परशिवपरिकल्पितत्वेन वस्तुतस्तन्मयतां तत्त्वविदः पश्यन्तीत्याह - ज्ञानस्वरूपमिति । "सद्धीदं सर्वं सत्सदिति । चिद्धीदं सर्वं काशते काशते च" इति तापनीयश्रुतिः । ज्ञानात्पृथगर्थस्य पारमार्थिकत्वाभिमानस्त्वविधैक निबन्धन इत्याह- अर्थेति ॥ ५७ ॥ ५८ ॥
कर्मणा केचिदिच्छन्ति कैवल्यं मुनिसत्तम ॥ ते मूढा मुनिशार्दूल वा ह्येत इति श्रुतिः ॥ ५९ ॥ आत्मैवेदं जगत्सर्वमिति जानन्ति पण्डिताः ॥ अज्ञानेनाssवृता मर्त्या न विजानन्ति शंकरम् ॥६०॥ अज्ञानपाशबद्धत्वादमुक्तः पुरुषः स्मृतः ॥ ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा ॥ ६१॥ प्लवा ह्येत इति ॥
For Private And Personal Use Only
"लवा ह्येते अदृढा यज्ञरूपा अष्टादशोत्तमवरं येषु कर्म | एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति " इति मुण्डकश्रुतिरपवर्गस्य कर्मसाध्यतां प्रतिक्षिपतीत्यर्थः ॥ ५९ ॥ ६० ॥ ६१ ॥ आत्मस्वरूपविज्ञानादज्ञानस्य परीक्षया ॥
क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥ ६२ ॥ रागाद्यसंभवे प्राज्ञ पुण्यपापोपमर्दनम् ॥ तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते ॥ ६३ ॥ अशरीरो महानात्मा सुखदुःखैर्न बाध्यते ॥ क्लेशमुक्तः प्रसन्नात्मा मुक्त इत्युच्यते बुधैः ॥ ६४ ॥ तस्मादज्ञानमूलानि सर्वदुःखानि देहिनाम् ॥ ज्ञानेनैव निवृत्तिः स्यादज्ञानस्य न कर्मभिः ॥ ६५ ॥ नास्ति ज्ञानात्परं किंचित्पवित्रं पापनाशनम् ॥ तदभ्यासादृते नास्ति संसारच्छेदकारणम् ॥ ६६ ॥