SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय ः १७] सूतसंहिता । बलादाहरणं तेषां प्रत्याहारः स उच्यते ॥ यद्यत्पश्यति तत्सर्वं ब्रह्म पश्येत्समाहितः ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir ज्ञेयप्रपञ्चस्य सर्वस्य ज्ञानादव्यतिरेकानुसंधानमिन्द्रियनियमनादपि प्रशस्तः प्रत्याहार इत्याह--पद्यदिति । "ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अश्वोवं च सृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् " इति हि मुण्डकोपनिषत् ॥ २ ॥ प्रत्याहारो भवत्येष ब्रह्मविद्भिः पुरोदितः ॥ यदि शुद्धमशुद्धं वा करोत्यामरणान्तिकम् || ३ || सर्वव्यापारजातस्य ब्रह्मणि समर्पणलक्षणमपरं प्रत्याहारमाह-यदि शुद्ध मिति । " यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुध्वमर्पणम् ॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः " २२५ इति हि गीतासु || ३ ॥ तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारोऽयमुच्यते ॥ अथवा नित्यकर्माणि ब्रह्मावनबुद्धितः ॥ ४ ॥ निषिद्धानि वर्जयित्वा नित्यानां काम्यानां च फलानभिसंधानेन भगवदाराधनबुद्ध्याऽनुष्ठानलक्षणमपरं प्रत्याहारमाह- अथवा नित्येति ॥ ४ ॥ ---- काम्यानि च तथा कुर्यात्प्रयाहारः स उच्यते ॥ अथवा वायुमाकृष्यं तत्तत्स्थाने निरोधयेत् ॥ ५ ॥ दन्तमूलात्पादाङ्गुष्ठपर्यन्तं प्राणस्यापकर्षणरूपमपरं प्रत्याहारमाह — अथवा वायुमिति । पूर्वस्थानादपरं स्थानं प्रति वायुमाकृष्यैकैकत्र स्थाने यावदखि - लोsपि प्राण आगत्य स्थिरो भवति तावश्चित्तं धारयेत् । अनन्तरमव स्थानान्तरं नयेदित्यर्थः ॥ ५ ॥ For Private And Personal Use Only १. प्रतं । प्रसिद्धं । २ङ ततः । ३. घ. 'ब्य स्थानात्यानं नि | कृप स्थानान्तस्थं नि ४ . कथा । ५ घ. "रमेव स्था । २९
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy