________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१]
सूतसंहिता। अयं साक्षान्महायोगी व्यासः सर्वज्ञ ईश्वरः।
महाभारतमाश्चर्य निर्ममे भगवान्मुनिः ॥४७॥ सर्वज्ञत्वं द्रढयितुं साकल्येन चतुर्विधपुरुषार्थप्रकाशकस्य महाभारतस्य तेनैव प्रणयनमाह । अयं साक्षान्महायोगीति । उक्तं हि ।
"धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्त्वचित्" । इदमेव हि महाभारतमणयनं स साक्षाद्विष्णोरवतार इत्यत्र गमकम् । यदाहुः
"कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्" इति ॥४७॥ तस्य शिष्या महाभागाश्चत्वारो मुनिसत्तमाः। अभवन्स मुनिस्तेभ्यः पैलादिभ्योऽददाच्छ्रतीः॥४८॥ तेभ्योऽधीता श्रुतिः सर्वैः साध्वी विप्राः सनातनी । तया वर्णाश्रमाचारः प्रत्तो वेदवित्तमाः॥४९॥ पुराणानां प्रवक्तारं स मुनिर्मी न्ययोजयत् ।
तस्मादेव मुनिश्रेष्ठाः पुराणं प्रवदाम्यहम् ॥५०॥ पैलादिभ्यः पैलवैशम्पायनजैमिनिमुमन्तुभ्यश्चतुरो वेदान्दत्वा ते यथा तत्मवर्तने नियुक्ताः । एवं पुराणानि मह्यं दत्वाऽहं नियुक्त इति तदाज्ञयैवेयं मया व्याक्रियत इत्यर्थः ॥ ४८ ॥ ४९ ॥ ५० ॥
श्रद्धया परया युक्ताः शृणुध्वं मुनिपुङ्गवाः ।
इति श्रुत्वा मुनिश्रेष्ठा नैमिषीयाः सनातनाः॥५१॥ शृणुध्वमिति व्यत्ययेनाऽऽत्मनेपदम् ॥ ५१ ॥
प्रणम्य मूतमव्यग्रं पूजयामासुरादरात् । सोऽपि सर्वजगद्धेतुं शंकरं परमेश्वरम् ॥ ५२ ॥ अम्बिकापतिमीशानमनन्तानन्दचिद्धनम् । ध्यात्वा तु सुचिरं कालं भक्त्या परवशोऽभवत् ॥५३॥ १ क. ग. घ. सार्वत्यं द्र। २ ङ. 'तस्यैतेन प्री ३ ख. कस्त्वन्यः ।
For Private And Personal Use Only