________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१६] सूतसंहिता।
२२१ उत्थानं च शरीरस्य चिह्नमेत जितेऽनिले ॥ एवमभ्यसतस्तस्य मूलरोगो विनश्यति ॥५०॥ भगंदरं च नष्टं स्यात्तथाऽन्ये व्याधयो मुने ॥
पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च ॥५१॥ उत्कर्षप्राणायाममाह-दक्षिणोत्तरेति । वामेन गुल्फेन पीडयित्वा जान्वोरधः स्थितं तमेव वामगुल्फसंधिं दक्षिणगुल्फेन पीडयित्वा शिवविनायकवागीशान्स्मरल्लिँङनालं समाकृष्य निरुद्धस्य पवनस्य नाड्यन्तरप्रवेशपरिहारार्थमाकुञ्चितोल्बणबन्धं कृत्वा रेफबिन्दुयुक्तं प्रणवमनुस्मरन्मूलाधारपवनं निरोधयेत् । मूलाधाराकुश्चनलक्षणं मूलबन्धं कुर्यादित्यर्थः । अयमुत्कर्षप्राणायामयोग आगमे सविशेषो दर्शितः
"अथोत्कर्षाभिधानस्य प्राणायामस्य संयमः । इडाधः सीवनी सूक्ष्मां पीडयेद्वामगुल्फतः ।। तद्रुल्फोपरि निक्षिप्य दक्षगुल्फं समं स्थिरम् । जङ्घोरुसंधि निच्छिद्रां बद्ध्वाऽऽसीत समाहितः ।। मूलाधार चतुष्पत्रे रक्तकिचल्कशोभिते । मनसा प्रणवं ध्यायन्दक्षगुल्फें विलोकयन् ॥ पावन्मनोलयस्तस्मिस्तावद्वायुं निरोधयेत् । अपानोऽनेन योगेन वह्निस्थानं व्रजेत्तदा । आग्नेये मण्डले रक्ते त्रिकोणे देहधारकः । वैश्वानरो वसत्यग्निरन्नपानादिपाचकः ॥ अपानमनिना सार्धं प्राणं तत्रैव निश्चलम् । धारयेत्पणवं ध्यायन्यावदग्निर्जितो भवेत् ॥ जातेऽग्निविजये सम्यगूज़ तद्वह्निमण्डलात् । कन्दनाभेरधस्ताच्च स्वाधिष्ठाने च षड्दले ।। प्राणापानौ समारोप्य निश्चलं वह्निना सह । नाभि विलोकयन्दृष्टया मनसा प्रणवं स्मरन् । यावन्मनोलयस्तस्मिंस्तावद्वायुं निरोधयेत् । ततोऽनिनाऽभ्यावर्तेन प्रबोधं याति कुण्डली ॥
१ ग, ङ. तेऽनले । २ ग. थाऽन्या व्या।
For Private And Personal Use Only