________________
Shri Mahavir Jain Aradhana Kendra
२२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिका समेता
आनन्दाविर्भवं यावत्तावन्मूर्धनि धारयेत् ॥ प्राणः प्रयात्यनेनैव ब्रह्मरन्धं महामुने ॥ ४१ ॥
[२ज्ञानयोगखण्डे -
वामदक्षिणहस्ताद्गुष्ठाभ्यां श्रोत्रे । तर्जनीभ्यां चक्षुषी । मध्यमाभ्यां च नासापुटौ च निरुध्य यावदानन्दाविर्भावो भवति तावद्दह्मरन्धे चित्तं धारयतः प्राणः सुषुम्नां प्रविशतीत्यर्थः ॥ ४० ॥ ४१ ॥
ब्रह्मरन्ध्रे गते वायौ नादश्वोत्पद्यतेऽनघ ॥ शङ्खध्वनिनिभश्वोऽदौ मध्ये मेघध्वनिर्यथा ॥ ४२ ॥ शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा ॥
पश्वाच्चित्तं महाप्राज्ञ साक्षादात्मोन्मुखं भवेत् ॥ ४३ ॥ नादश्वोत्पद्यत इति । तद्भेदा हंसोपनिषदि दशधा कथिताः । चिणीति प्रथमः । चिणचिणीति द्वितीयः । घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थः । पञ्चमस्तन्नीनादः । षष्ठस्तालनादः । सप्तमो वेणुनादः । अष्टमो भेरीनादः । नवमो मृदङ्गनादः । दशमो मेघनाद इवि || ४२ || ४३ ॥
For Private And Personal Use Only
पुनस्तज्ज्ञाननिष्पत्तिस्तया संसारनिनुतिः ॥ दक्षिणोत्तरगुल्फेन सीवनीं पीडयेच्छिराम् ॥ ४४ ॥ सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः ॥ जान्वोरधः स्थितं संधिं स्मृत्वा देवं च त्र्यम्बकम् ॥४५॥ विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः ॥ लिङ्गनालात्समाकृष्य वायुमव्यग्रतो मुने ॥ ४६ ॥ प्रणवेनाग्नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् ॥ मूलाधारस्य विप्रेन्द्र मध्यमे तु निरोधयेत् ॥ ४७ ॥ निरुद्धवायुना दीप्तो वहूनिर्दहति कुण्डलीम् ॥ पुनः सुषुम्नया वायुर्वह्निना सह गच्छति ॥ ४८ ॥ एव मभ्यसतस्तस्य जितो वायुर्भवेद्ध्रुवम् ॥ प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिसत्तम ॥ ४९ ॥
१ ङ. धापयेत् । २ घ. श्वासौ मं । ३ ग. धने ॥ ४७ ॥