SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेनिपीज्य सीवनी सूक्ष्मां दक्षिणोत्तरगुल्फतः ॥ वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥ ११॥ मेद्रोपरि विनिक्षिप्य सव्यगुल्फें ततोपरि ॥ गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं भवेत् ॥ १२॥ सीवन्या अधस्ताद्वामो गुल्फस्तस्याधस्तादक्षिणः । अथवा मेह्स्योपरि सव्यो गुल्फस्तस्योपरि दक्षिण इति द्वेधा मुक्तासनमित्याह-निपीड्य सीवनीमिति ॥ ११ ॥ १२॥ कूर्पराग्रौ मुनिश्रेष्ठ निःक्षिपेन्नाभिपार्श्वयोः ॥ भूम्यां पाणितलद्वंदं निःक्षिप्यैकाग्रमानसः ॥ १३ ॥ समुन्नतशिरम्पादो दण्डवद्योनि संस्थितः॥ मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् ॥ १४ ॥ कूर्पराग्राविति । तथा चाऽऽगमे "भुवि पाणितले कृत्वा कूपरौ नाभिपार्श्वगौ । समुन्नतशिरःपादं दण्डवयोमसंश्रयम् ।। कुर्यादेहमिति प्रोक्तं मायूरं पापनाशनम्" इति ॥ १३ ॥ १४ ।। येन केन प्रकारेण सुखं धैर्य च जायते ॥ तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥ १५॥ येन केनेति । तथा च पातञ्जलं सूत्रम्-"स्थिरमुखमासनम्" इति ॥ १५ ॥ आसनं विजितं येन जितं तेन जगत्रयम् ॥ आसनं संकलं प्रोक्तं मुने वेदविदां वर ॥१६॥ जगत्रयमिति । आसनजयस्य चित्तैकाग्यहेतुत्वात् । शीतोष्णादिद्वंद्वैरनुपघाताछ । आह पतञ्जलिः-"ततो द्वंद्वानभिघातः" इति ॥ १६ ॥ ___ अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥ १७ ॥ इति श्रीस्कन्दपुराणे सतसंहितायां ज्ञानयोगखण्डे आसनविधिनिरूपणं नाम पञ्चदशोऽध्यायः ॥ १५॥ १ग. ङ. वामेन । २ ग. पादतल' । ३ ङ. सफलं । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy