SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१३ भध्यायः१५] सूतसंहिता। अङ्गुष्ठावपि गृह्णीयादस्ताभ्यां व्युत्क्रमेण तु ॥ ऊर्वोरुपरि विपेन्द्र कृत्वा पादतलद्दयम् ॥ पद्मासनं भवेदेतत्पापरोगभयापहम् ॥५॥ अङ्गष्ठावपीति । दक्षिणस्योरोरुपरि वामपादतलं विन्यस्य तदीयमङ्ग; पश्चिमपथा गतेन वामहस्तेन ग्रहीयात् । एवं वामस्योररूपरि न्यस्तस्य दक्षिणपादतलस्याङ्गष्ठं पश्चिमपथा गतेन दक्षिणहस्तेनेत्येतत्पबासनमुक्तफलमित्यर्थः ॥ ५॥ दक्षिणोत्तरपादं तु सव्य ऊरुणि विन्यसेत् ॥ ऋजुकायः सुखासीनो वीरासनमुदाहृतम् ॥ ६॥ दक्षिणमुत्तरपाद नाम पादाग्रं सव्ये वाम ऊरौ विन्यसेत् । एतच्चोपलक्षणम् । सव्यं वामं दक्षिण ऊरावेतद्वीरासनमित्यर्थः । दक्षिणोत्तरपादं तु दक्षिणोरुणि विन्यसेदिति पाठान्तरम् । आगमे चोभयमुक्तम्-ऊर्वोरुपरि कुर्वीत पादो वीरं चेति ॥ ६॥ गुल्फी च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ॥ दक्षिणं सव्यगुल्फेन वामं दक्षिणगुल्फतः ॥७॥ हस्तौ च जान्वोः संस्थाप्य स्वाङ्गलीश्च प्रसार्य च ॥ नासाग्रं च निरीक्षेत भवेत्सिंहासनं हि तत् ॥ ८ ॥ सीवन्या वामपार्चे दक्षिणगुल्फ दक्षिणपार्चे च वामगुल्फ प्रसारितालिइस्तौ जानुमूोविन्यस्य नासाग्रदर्शनं सिंहासनम् ॥ ७॥ ८॥ गुल्फी च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ॥९॥ पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलः॥ भद्रासनं भवेदेतद्विषरोगविनाशनम् ॥ १०॥ भद्रासनमाह-गुल्फी चेति । सीवन्या वामपार्श्वे वामगुल्फो दक्षिणपार्थे दक्षिणगुल्फो यथा भवति तथा पादतले परस्पराभिमुखे सीवन्या अधस्ताद्विनिवेश्य दक्षिणोड़ें दक्षिणपाणिना वामोरं च वामपाणिना सम्यनिष्पीड्यावस्थानं भद्रासनमित्यर्थः ॥ ९॥ १० ॥ १५. 'रं वामपादा) २ क ड. निरीक्ष्येत । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy