SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१२ तात्पर्यदीपिका समेता इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे नियमविधिकथनं नाम चतुर्दशो ऽध्यायः ॥ १४ ॥ भस्मज्योतिरिति । भस्मैवोक्तरीत्या तत्त्वावबोधहेतुत्वाज्ज्योतिर्यस्य स तथोक्तः ॥ ३० ॥ Acharya Shri Kailassagarsuri Gyanmandir [२ज्ञानयोग खण्डे इति श्री सूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे नियमविचिकथनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ ( अथ पञ्चदशोऽध्यायः ) ईश्वर उवाच आसनानि पृथग्वक्ष्ये शृणु वाचस्पतेऽधुना ॥ स्वस्तिकं गोमुखं पद्मं वीरं सिंहासनं तथा ॥ १ ॥ भद्रं मुक्तासनं चैव मयूरासनमेव च ॥ सुखासनसमाख्यं च नवमं मुनिपुंगव ॥ २ ॥ यमनियमानुक्त्वा क्रमप्राप्तमासनं बृहस्पतिं प्रति वक्तुमीश्वरः प्रतिजानीतेआसनानीति । तानि नव तावदुद्दिशति स्वस्तिकमिति ॥ १ ॥ २ ॥ जानूर्वोरन्तरे विप्र कृत्वा पादतले उभे ॥ समग्रीवशिरस्कस्य स्वस्तिकं परिचक्षते ॥ ३ ॥ स्वस्तिकस्प लक्षणमाह – जानूवरिति । दक्षिणजानूरुमध्ये वामपादतलं वामजानूरुमध्ये दक्षिणपादतलं च विन्यस्य ऋजुकाय उपविशेदेतत्स्वस्तिकासनमित्यर्थः ॥ ३ ॥ For Private And Personal Use Only सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे निवेशयेत् ॥ दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते ॥ ४ ॥ सव्ये वामे तस्मिन्पृष्ठपार्श्वे दक्षिणगुल्फे दक्षिणे च पृष्ठपार्श्वे सव्यं वौमं विन्यसेतोमुखासनम् ॥ ४ ॥ १ घ. 'निता । २ घ ङ. वामगुल्फे वि ।
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy