________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१४] सूतसंहिता ।
२११ व्रतशब्दस्यार्थान्तरमाह-अथवेति ॥ २५ ॥
सर्वाङ्गोढूलनं यत्ततं प्रोक्तं मनीषिभिः ॥
एतद्देदशिरोनिष्ठाः प्राहुः पाशुपतं मुने ॥ २६ ॥ एतद्वेदेति । अथर्वशिरसि-"अनिरित्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेद्रतमेतत्पाशुपतम्" इत्युक्तमित्यर्थः ॥ २६ ॥
केचिच्छिरोव्रतं प्राहुः केचिदत्याश्रमं विदुः ॥
केचित्तहतमित्यूचुः केचिच्छांभवमैश्वरम् ॥ २७॥ व्रतपदस्य मतभेदेनार्थान्तराण्याह-केचिदिति । "शिरोवतं विधिवद्यैस्तु चीर्णम्" इत्योधर्वणिका आहुरित्यर्थः । केचिदिति । "अत्याश्रमिभ्यः परमं पवित्रम्" इति श्वेताश्वतरशाखिनो व्यवहरन्तीत्यर्थः। व्रतं नाम शांभवामित्यन्ये, ऐश्वरमित्यपरे कथयन्तीत्यर्थः । अथवा यथोक्तपाशुपतव्रतमेव शिरोवतात्याश्रमशांभवैश्वरशब्देरापर्वणिकादिभिरभिधीयत इत्यर्थः ।। २७ ।।
अस्य व्रतस्य माहात्म्यमागमान्तेषु संस्थितम् ॥
सर्वपापहरं पुण्यं सम्यग्ज्ञानप्रकाशकम् ॥ २८॥ आगमान्तेष्वपरेष्वपि बहुषु वेदान्तेषु ।। २८ ॥
यः पशुस्तत्पशुत्वं च व्रतेनानेन न त्यजेत् ॥
तं हत्वा न स पापीयानिति वेदान्तनिश्चयः॥२९॥ यः पशुरिति । मुकरसर्वभोगोपकरणं परमपुरुषार्थसाधनं चैतत्पाशुपतव्रतम् । अमुना व्रतेन यः पशुः स्वात्मनः पशुत्वं न जहाति स आत्मघातकत्वादाततायी । अतः
"आततायिवधे दोषो हन्तु स्त्येव कश्चन" इति वेदविदः स्मरन्तीत्यर्थः ॥ २९ ॥
सर्वमुक्तं समानेन नियमं मुनिसत्तम ।। अनेन विधिना युक्तो भस्मज्योतिर्भविष्यति ॥३०॥
१ ग. 'याद्या । २ छ, 'मान्तरेषु । ३ ५. 'नान्येन !
For Private And Personal Use Only