________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2
"
.
तात्पर्यदीपिकासमेता- रज्ञानयोगखण्डेश्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ॥ स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ १९ ॥ तस्मात्सर्वप्रयत्नेन वेदमन्त्रं सदा जपेत् ॥
जपश्च विविधः प्रोक्तो वाचिको मानसस्तथा ॥२०॥ वेदोक्तधर्मसम्यगनुष्ठानाशक्तस्यापि यथाशक्ति तदनुष्ठानमेव न तु विरुद्धतत्रार्थानुष्ठानमित्याह-श्रेयान्स्वधर्म इति ॥ १९ ॥ २० ॥
वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः ॥ मानसो मननध्यानभेदादैविध्यमास्थितः ॥२१॥ उच्चै पादुपांशुश्च सहस्रगुण उच्यते ॥
मानसश्च तथोपांशोः सहस्रगुण उच्यते ॥ २२॥ वाचिकोपांशुरिति । संधिश्छान्दसः ।। २१ ॥ २२ ॥
उच्चैर्जपस्तु सर्वेषां यथोक्तफलदो भवेत् ॥
नीचैःश्रुतोन चेत्सोऽपि श्रुतश्चेनिष्फलो भवेत् ॥२३॥ उच्चै पादुपांशुजपः फलेन सहस्रगुण उक्त उच्चैर्जपस्तु कियत्फल इत्यत आह --उच्चै पस्तु सर्वेषामिति । यो मन्त्रजपो यावंतः फलस्य साधनत्वेन शास्ने कथितः स तावत्फलस्तत्सहस्रगुणस्तन्मन्त्रोपांशुजप इत्यर्थः । उच्चै - पोऽपि यथा नीचैम्लेंच्छैन श्रूयते तथाऽरण्यादौ विविक्तदेशे क्रियते चेदुक्तफलो भवति । प्रमादात्तैः श्रुतश्चेत्तस्य यथोक्ताप फलं नास्तीत्याह-नीचे. रिति ॥ २३ ॥
ऋषि छन्दोऽधिदैवं च ध्यायमानो जपेनरः ॥
प्रसन्नगुरुणा पूर्वमुपदिष्टं त्वनुज्ञया ॥ २४ ॥ दशमं नियमत्रतमाह-प्रसन्नेति । प्रतिबन्धकपानिरासद्वारा चित्तशुद्धये पुण्योपचयद्वारा फलानुकूल्याय च गुर्वनुज्ञया क्रियमाणमुपवासादिकं व्रतमित्यर्थः ॥ २४ ॥
धर्मार्थमात्मशुद्धयर्थमुपायग्रहणं व्रतम् ॥ अथवाऽऽथर्वणेमन्त्रैर्ग्रहीत्वा अस्म पाण्डुरम् ॥ २५॥ १ क. न. ग. घ. गुणोऽस्तुक्त। २ . यावरफल । ३ ५, श्रुतस्यैतस्य
For Private And Personal Use Only