________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूतसंहिता।
२०७
अध्यायः१४]
ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः ॥ स मूढः काञ्चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत॥२०॥ ज्ञानाम्भसैव शुद्धस्य कृतकृत्यस्य योगिनः ॥
कर्तव्यं नास्ति लोकेऽस्मिन्नस्ति चेन्नस तत्त्ववित् ॥२१॥ विवेकज्ञानस्यैव शौचत्वे हेतुमाह-अत्यन्तमलिन इति ॥ १९॥२०॥२१॥
लोकत्रयेऽपि कर्तव्यं किंचित्रास्यात्मवेदिनः ॥ इहैव जीवन्मुक्तास्त इह चेदिति हि श्रुतिः ॥ २२॥ तस्मात्सर्वप्रयत्नेन मुने हिंसादिसाधनैः ॥
आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदजात् ॥ २३ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे
यमविधिनिरूपणं नाम त्रयोदशोऽध्यायः॥१३॥ किंचिदिति। किमपि नास्ति । इहैव जीवन्मुक्तत्वे श्रुतिमुदाहरति-इह चेदिति ।
__ "इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः" इति तलवकारोपनिषदीत्यर्थः ॥ २२ ॥ २३ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डेऽष्टानयोगे यमवि
धिनिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३ ।।
( अथ चतुर्दशोऽध्यायः)
ईश्वर उवाच
अथातः संप्रवक्ष्यामि नियमान्मुनिसत्तम ॥ तपः संतोष आस्तिक्यं दानमीश्वरपूजनम् ॥१॥ सिद्वान्तश्रवणं चैव हीमतिश्च जपो व्रतम् ॥ एते च नियमाः प्रोक्ता योगविद्भिर्महात्मभिः ॥२॥
१ ङ. 'ररञ्जनम् ।
For Private And Personal Use Only