SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०८ तात्पर्य दीपिकासमेता [२ज्ञानयोग खण्डे यतो यमवनियमा अपि योगाङ्गमतस्तदनन्तरं तान्वक्तुं प्रतिजानीते - - अथात इति ॥ १ ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir तानहं क्रमशो वक्ष्ये शृणु श्रद्धापुरःसरम् ॥ वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः ॥ ३ ॥ अपरं तप आह - वेदोक्तेनेति । कृच्छ्रचान्द्रायणादिस्वरूपं प्रागुक्तम् ॥ ३ ॥ शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥ कोऽहं मोक्षः कथं केन संसारं प्रतिपन्नवान् ॥ ४ ॥ इत्यालोचनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥ यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् ॥ ५ ॥ परमं तप आह - कोऽहमिति । उक्तं हि "मनसश्चेन्द्रियाणां च ऐकाउयं परमं तपः । तेज्यायः सर्वधर्मेभ्यः स धर्मः परमो मतः" इति ॥ ४ ॥ ५ ॥ तं संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥ ब्रह्मादिलोकपर्यन्ताद्विरक्तस्य परात्मनि ॥ ६ ॥ प्रियं यत्तन्महाप्राज्ञाः संतोषं परमं विदुः ॥ श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥ ७ ॥ न्यायार्जितं धनं चान्नं श्रद्धया वैदिके द्विजे ॥ अन्यद्वा यत्प्रदीयेत तद्दानं प्रोच्यते मया ॥ ८ ॥ अवैदिकाय विप्राय दत्तं यन्मुनिपुङ्गव ॥ नोपकाराय तत्तस्य भस्मनीव हुतं हविः ॥ ९ ॥ परमं संतोषमाह - ब्रह्मादीति । श्रूयते हि - "ते ये शतं बृहस्पतेरानन्दाः, स एकः प्रजापतेरानन्दः, श्रोत्रियस्य चाकामहत्तस्य " इति ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥ ब्रह्माणं विष्णुमीशानं वैश्यक्षत्रियवाडवैः ॥ यथाशंक्त्यर्चनं भक्त्या यत्तदीश्वरपूजनम् ॥ १० ॥ १ घ. तज्जयः । २ ग, रक्तः परमात्म । ३ . ग. ध. शक्त्याऽचन । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy